TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 983
Hymn: 146_(972)
Verse: 1
Halfverse: a
अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।
अर॑ण्या॒न्यर॑ण्यान्य्
अर॑ण्यानि
अर॑ण्यानि
अर॑ण्यानि
अर॑ण्यानि
Halfverse: b
अ॒सौ या प्रेव॒ नश्य॑सि ।
अ॒सौ
या
प्र
इ॑व
नश्य॑सि
।
अ॒सौ
या
प्रेव
नश्य॑सि
।
Halfverse: c
क॒था ग्रामं॒ न पृ॑छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ।।
क॒था ग्रामं॒ न पृ॑छसि
क॒था
ग्राम॑म्
न
पृ॑छसि
क॒था
ग्रामं
न
पृ॑छसि
Halfverse: d
न त्वा॒ भीरि॑व विन्दती३ँ ।।
न
त्वा
भीः
इ॑व
विन्दति
।।
न
त्वा
भीर्
ऽव
%
विन्दती३ँ
।।
Verse: 2
Halfverse: a
वृ॑षार॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।
वृ॑षार॒वाय॒ वद॑ते
वृषार॒वाय
वद॑ते
वृषार॒वाय
वद॑ते
Halfverse: b
यदु॒पाव॑ति चिच्चि॒कः ।
यत्
उ॒पाव॑ति
चिच्चि॒कः
।
यद्
उ॒पाव॑ति
चिच्चि॒कः
।
Halfverse: c
आ॑घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ।।
आ॑घा॒टिभि॑रिव धा॒वय॑न्न्
आघा॒टिभिः
इव
धा॒वय॑न्
आघा॒टिभि॑र्
ऽव
%
धा॒वय॑न्न्
Halfverse: d
अरण्या॒निर्म॑हीयते ।।
अ॑रण्या॒निः
म॑हीयते
।।
अ॑रण्या॒निर्
महीयते
।।
Verse: 3
Halfverse: a
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते ।
उ॒त गाव॑ इवादन्त्य्
उ॒त
गावः
इव
अदन्ति
उ॒त
गाव
इवादन्ति
Halfverse: b
उ॒त वेश्मे॑व दृश्यते ।
उ॒त
वेश्म
इव
दृश्यते
।
उ॒त
वेश्मे॑व
दृश्यते
।
Halfverse: c
उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ।।
उ॒तो अ॑रण्या॒निः सा॒यं
उ॒त
उ
अरण्या॒निः
सा॒यम्
उ॒तो
अ॑रण्या॒निः
सा॒यं
Halfverse: d
श॑क॒टीरि॑व सर्जति ।।
श॑क॒टीः
इ॑व
सर्जति
।।
श॑क॒टीर्
इव
सर्जति
।।
Verse: 4
Halfverse: a
गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् ।
गाम॒ङ्गैष आ ह्व॑यति
गाम्
अ॒ङ्ग
ए॒षः
आ
ह्व॑यति
गाम्
अ॒ङ्गैष
आ
ह्व॑यति
Halfverse: b
दार्व॒ङ्गैषो अपा॑वधीत् ।
दारु
अ॒ङ्ग
ए॒षः
अप
अवधीत्
।
दार्व्
अ॒ङ्गैषो
अपा॑वधीत्
।
Halfverse: c
वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ।।
वस॑न्नरण्या॒न्यां सा॒यम्
वस॑न्
अरण्या॒न्याम्
सा॒यम्
वस॑न्न्
अरण्या॒न्यां
सा॒यम्
Halfverse: d
अक्रु॑क्ष॒दिति॑ मन्यते ।।
अक्रु॑क्षत्
इति
मन्यते
।।
अक्रु॑क्षद्
इति
मन्यते
।।
Verse: 5
Halfverse: a
न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गछ॑ति ।
न वा अ॑रण्या॒निर्ह॑न्त्य्
न
वै
अ॑रण्या॒निः
ह॑न्ति
न
वा
अ॑रण्या॒निर्
हन्ति
Halfverse: b
अ॒न्यश्चेन्नाभि॒गछ॑ति ।
अ॒न्यः
च
इत्
न
अ॑भि॒गछ॑ति
।
अ॒न्यश्
चेन्
नाभि॒गछ॑ति
।
Halfverse: c
स्वा॒दोः पल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ।।
स्वा॒दोः पल॑स्य ज॒ग्ध्वाय
स्वा॒दोः
पल॑स्य
ज॒ग्ध्वाय
स्वा॒दोः
पल॑स्य
ज॒ग्ध्वाय
Halfverse: d
यथा॒कामं॒ नि प॑द्यते ।।
य॑था॒काम॑म्
नि
प॑द्यते
।।
य॑था॒कामं
नि
प॑द्यते
।।
Verse: 6
Halfverse: a
आञ्ज॑नगन्धिं सुर॒भिम्ब॑ह्व॒न्नामकृ॑षीवलाम् ।
आञ्ज॑नगन्धिं सुर॒भिम्
आञ्ज॑नगन्धिम्
सुर॒भिम्
आञ्ज॑नगन्धिं
सुर॒भिम्
Halfverse: b
बह्व॒न्नामकृ॑षीवलाम् ।
ब॑ह्व॒न्नाम्
अकृ॑षीवलाम्
।
ब॑ह्व॒न्नाम्
अकृ॑षीवलाम्
।
Halfverse: c
प्राहम्मृ॒गाणा॑म्मा॒तर॑मरण्या॒निम॑शंसिषम् ।।
प्राहम्मृ॒गाणा॑म्मा॒तर॑म्
प्र
अ॒हम्
मृ॒गाणा॑म्
मा॒तर॑म्
प्राहम्
मृ॒गाणा॑म्
मा॒तर॑म्
Halfverse: d
अरण्या॒निम॑शंसिषम् ।।
अ॑रण्या॒निम्
अशंसिषम्
।।
अ॑रण्या॒निम्
अशंसिषम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.