TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 962
Hymn: 125_(951)
Verse: 1
Halfverse: a
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य्
अ॒हम्
रु॒द्रेभिः
वसु॑भिः
चरामि
अ॒हं
रु॒द्रेभि॑र्
वसु॑भिश्
चरामि
Halfverse: b
अ॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हम्
आदि॒त्यैः
उ॒त
वि॒श्वदे॑वैः
।
अ॒हम्
आदि॒त्यैर्
उ॒त
वि॒श्वदे॑वैः
।
Halfverse: c
अ॒हम्मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ।।
अ॒हम्मि॒त्रावरु॑णो॒भा बि॑भर्म्य्
अ॒हम्
मि॒त्रावरु॑णा
उ॒भा
बि॑भर्मि
अ॒हम्
मि॒त्रावरु॑णो॒भा
बि॑भर्मि
Halfverse: d
अ॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ।।
अ॒हम्
इन्द्रा॒ग्नी
अ॒हम्
अ॒श्विना
उ॒भा
।।
अ॒हम्
इन्द्रा॒ग्नी
अ॒हम्
अ॒श्विनो॒भा
।।
Verse: 2
Halfverse: a
अ॒हं सोम॑माह॒नस॑म्बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षण॒म्भग॑म् ।
अ॒हं सोम॑माह॒नस॑म्बिभर्म्य्
अ॒हम्
सोम॑म्
आह॒नस॑म्
बिभर्मि
अ॒हं
सोम॑म्
आह॒नस॑म्
बिभर्मि
Halfverse: b
अ॒हं त्वष्टा॑रमु॒त पू॒षण॒म्भग॑म् ।
अ॒हम्
त्वष्टा॑रम्
उ॒त
पू॒षण॑म्
भग॑म्
।
अ॒हं
त्वष्टा॑रम्
उ॒त
पू॒षण॑म्
भग॑म्
।
Halfverse: c
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ यज॑मानाय सुन्व॒ते ।।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते
अ॒हम्
दधामि
द्रवि॑णम्
ह॒विष्म॑ते
अ॒हं
द॑धामि
द्रवि॑णं
ह॒विष्म॑ते
Halfverse: d
सुप्रा॒व्ये॒ यज॑मानाय सुन्व॒ते ।।
सु॑प्रा॒व्ये
यज॑मानाय
सुन्व॒ते
।।
सु॑प्रा॒विये
यज॑मानाय
सुन्व॒ते
।।
Verse: 3
Halfverse: a
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां
अ॒हम्
राष्ट्री
सं॒गम॑नी
वसू॑नाम्
अ॒हं
राष्ट्री
सं॒गम॑नी
वसू॑नां
Halfverse: b
चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
चि॑कि॒तुषी
प्रथ॒मा
य॒ज्ञिया॑नाम्
।
चि॑कि॒तुषी
प्रथ॒मा
य॒ज्ञिया॑नाम्
।
Halfverse: c
ताम्मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्राम् ।!। भूर्या॑वे॒शय॑न्तीम् ।।
ताम्मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा
ताम्
मा
दे॒वाः
वि
अ॑दधुः
पुरु॒त्रा
ताम्
मा
दे॒वा
वि
अ॑दधुः
पुरु॒त्रा
Halfverse: d
भूरि॑स्थात्रा॒म्भूर्या॑वे॒शय॑न्तीम् ।।
भूरि॑स्थात्राम्
भूरि
आवे॒शय॑न्तीम्
।।
भूरि॑स्थात्राम्
भूरि
आवे॒शय॑न्तीम्
।।
Verse: 4
Halfverse: a
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति
मया
सः
।!।
अन्न॑म्
अत्ति
यः
वि॒पश्य॑ति
मया
सो
अन्न॑म्
अत्ति
यो
वि॒पश्य॑ति
Halfverse: b
यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।
यः
प्राणि॑ति
यः
ई॑म्
शृ॒णोति
उ॒क्तम्
।
यः
प्राणि॑ति
य
ईं
शृ॒णोति
उ॒क्तम्
।
Halfverse: c
अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ।।
अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति
अम॒न्तवः
माम्
ते
उप
क्षियन्ति
अम॒न्तवो
मां
त
उप
क्षियन्ति
Halfverse: d
श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ।।
श्रु॒धि
श्रु॑त
श्रद्धि॒वम्
ते
वदामि
।।
श्रु॒धि
श्रु॑त
श्रद्धि॒वं
ते
वदामि
।।
Verse: 5
Halfverse: a
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
अ॒हमे॒व स्व॒यमि॒दं व॑दामि
अ॒हम्
ए॒व
स्व॒यम्
इ॒दम्
वदामि
अ॒हम्
ए॒व
स्व॒यम्
इ॒दं
व॑दामि
Halfverse: b
जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
जुष्ट॑म्
दे॒वेभिः
उ॒त
मानु॑षेभिः
।
जुष्टं
दे॒वेभि॑र्
उ॒त
मानु॑षेभिः
।
Halfverse: c
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तम्ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ।।
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि
यम्
का॒मये
तंत॑म्
उ॒ग्रम्
कृणोमि
यं
का॒मये
तंत॑म्
उ॒ग्रं
कृ॑णोमि
Halfverse: d
तम्ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ।।
तम्
ब्र॒ह्माण॑म्
तम्
ऋषि॑म्
तम्
सुमे॒धाम्
।।
तम्
ब्र॒ह्माणं
तम्
ऋषिं
तं
सु॑मे॒धाम्
।।
Verse: 6
Halfverse: a
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि
अ॒हम्
रु॒द्राय
धनुः
आ
त॑नोमि
अ॒हं
रु॒द्राय
धनु॑र्
आ
त॑नोमि
Halfverse: b
ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।
ब्र॑ह्म॒द्विषे
शर॑वे
हन्त॒वै
उ
।
ब्र॑ह्म॒द्विषे
शर॑वे
हन्त॒वा
उ
।
Halfverse: c
अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ।।
अ॒हं जना॑य स॒मदं॑ कृणोम्य्
अ॒हम्
जना॑य
स॒मद॑म्
कृणोमि
अ॒हं
जना॑य
स॒मदं
कृणोमि
Halfverse: d
अ॒हं द्यावा॑पृथि॒वी आ वि॑वेश ।।
अ॒हम्
द्यावा॑पृथि॒वी
आ
वि॑वेश
।।
अ॒हं
द्यावा॑पृथि॒वी
आ
वि॑वेश
।।
Verse: 7
Halfverse: a
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व॒न्तः स॑मु॒द्रे ।
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्
अ॒हम्
सुवे
पि॒तर॑म्
अस्य
मू॒र्धन्
अ॒हं
सु॑वे
पि॒तर॑म्
अस्य
मू॒र्धन्
Halfverse: b
मम॒ योनि॑र॒प्स्व॒न्तः स॑मु॒द्रे ।
मम
योनिः
अ॒प्सु
अ॒न्तर्
समु॒द्रे
।
मम
योनि॑र्
अ॒प्सु
अ॒न्तः
स॑मु॒द्रे
।
Halfverse: c
ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ।।
ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वा
ततः
वि
ति॑ष्ठे
भुव॑ना
अनु
विश्वा
ततो
वि
ति॑ष्ठे
भुव॒नानु
विश्वा
Halfverse: d
॑उ॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ।।
उ॒त
अ॒मूम्
द्याम्
व॒र्ष्मणा
उप
स्पृशामि
।।
उ॒तामूं
द्यां
व॒र्ष्मणोप
स्पृशामि
।।
Verse: 8
Halfverse: a
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्य्
अ॒हम्
ए॒व
वातः
इव
प्र
वा॑मि
अ॒हम्
ए॒व
वात
इव
प्र
वा॑मि
Halfverse: b
आ॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
आ॒रभ॑माणा
भुव॑नानि
विश्वा
।
आ॒रभ॑माणा
भुव॑नानि
विश्वा
।
Halfverse: c
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सम्ब॑भूव ।।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या
प॒रः
दि॒वा
प॒रः
ए॒ना
पृ॑थि॒व्या
प॒रो
दि॒वा
प॒र
ए॒ना
पृ॑थि॒व्या
Halfverse: d
ए॒ताव॑ती महि॒ना सम्ब॑भूव ।।
ए॒ताव॑ती
महि॒ना
सम्
बभूव
।।
ए॒ताव॑ती
महि॒ना
सम्
बभूव
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.