TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 959
Hymn: 122_(948)
Verse: 1
Halfverse: a
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् ।
वसुं॒ न चि॒त्रम॑हसं गृणीषे
वसु॑म्
न
चि॒त्रम॑हसम्
गृणीषे
वसुं
न
चि॒त्रम॑हसं
गृणीषे
Halfverse: b
वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् ।
वा॒मम्
शेव॑म्
अति॑थिम्
अद्विषे॒ण्यम्
।
वा॒मं
शेव॑म्
अति॑थिम्
अद्विषे॒ण्यम्
।
Halfverse: c
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ।।
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो
स
रा॑सते
शु॒रुधः
वि॒श्वधा॑यसः
स
रा॑सते
शु॒रुधो
वि॒श्वधा॑यसो
Halfverse: d
ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ।।
अ॒ग्निः
होता
गृ॒हप॑तिः
सु॒वीर्य॑म्
।।
अ॒ग्निर्
होता
गृ॒हप॑तिः
सु॒वीर्य॑म्
।।
Verse: 2
Halfverse: a
जु॑षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।
जु॑षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो
जुषा॒णः
अ॑ग्ने
प्रति
हर्य
मे
वचः
जुषा॒णो
अ॑ग्ने
प्रति
हर्य
मे
वचो
Halfverse: b
विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।
विश्वा॑नि
वि॒द्वान्
व॒युना॑नि
सुक्रतो
।
विश्वा॑नि
वि॒द्वान्
व॒युना॑नि
सुक्रतो
।
Halfverse: c
घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ।।
घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य
घृत॑निर्णिक्
ब्रह्म॑णे
गा॒तुम्
आ
ई॑रय
घृत॑निर्णिग्
ब्रह्म॑णे
गा॒तुम्
एर॑य
Halfverse: d
तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तम् ।।
तव
दे॒वाः
अ॑जनयन्
अनु
व्र॒तम्
।।
तव
दे॒वा
अ॑जनयन्न्
अनु
व्र॒तम्
।।
Verse: 3
Halfverse: a
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो
स॒प्त
धामा॑नि
परि॒यन्
अम॑र्त्यः
स॒प्त
धामा॑नि
परि॒यन्न्
अम॑र्तियो
Halfverse: b
दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।
दाश॑त्
दा॒शुषे
सु॒कृते
मामहस्व
।
दाश॑द्
दा॒शुषे
सु॒कृते
मामहस्व
।
Halfverse: c
सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट्स॒मिधा॒ तं जु॑षस्व ।।
सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा
सु॒वीरे॑ण
र॒यिणा
अग्ने
स्वा॒भुवा
सु॒वीरे॑ण
र॒यिणा॑ग्ने
सुआ॒भुवा
Halfverse: d
यस्त॒ आन॑ट्स॒मिधा॒ तं जु॑षस्व ।।
यः
ते
आन॑ट्
स॒मिधा
तम्
जुषस्व
।।
यस्
त
आन॑ट्
स॒मिधा
तं
जु॑षस्व
।।
Verse: 4
Halfverse: a
य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒रोहि॑तं ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् ।
य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒रोहि॑तं
य॒ज्ञस्य
के॒तुम्
प्रथ॒मम्
पु॒रोहि॑तम्
य॒ज्ञस्य
के॒तुम्
प्रथ॒मम्
पु॒रोहि॑तं
Halfverse: b
ह॒विष्म॑न्त ईळते स॒प्त वा॒जिन॑म् ।
ह॒विष्म॑न्तः
ईळते
स॒प्त
वा॒जिन॑म्
।
ह॒विष्म॑न्त
ईळते
स॒प्त
वा॒जिन॑म्
।
Halfverse: c
शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षण॑म्पृ॒णन्तं॑ दे॒वम्पृ॑ण॒ते सु॒वीर्य॑म् ।।
शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षण॑म्
शृ॒ण्वन्त॑म्
अ॒ग्निम्
घृ॒तपृ॑ष्ठम्
उ॒क्षण॑म्
शृ॒ण्वन्त॑म्
अ॒ग्निं
घृ॒तपृ॑ष्ठम्
उ॒क्षण॑म्
Halfverse: d
पृ॒णन्तं॑ दे॒वम्पृ॑ण॒ते सु॒वीर्य॑म् ।।
पृ॒णन्त॑म्
दे॒वम्
पृण॒ते
सु॒वीर्य॑म्
।।
पृ॒णन्तं
दे॒वम्
पृण॒ते
सु॒वीरि॑यम्
।।
Verse: 5
Halfverse: a
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः
त्वम्
दू॒तः
प्र॑थ॒मः
वरे॑ण्यः
तु॒वं
दू॒तः
?
प्र॑थ॒मो
वरे॑ण्यः
Halfverse: b
स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।
स
हू॒यमा॑नः
अ॒मृता॑य
मत्स्व
।
स
हू॒यमा॑नो
अ॒मृता॑य
मत्स्व
।
Halfverse: c
त्वाम्म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ।।
त्वाम्म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे
त्वाम्
मर्जयन्
म॒रुतः
दा॒शुषः
गृ॒हे
त्वाम्
मर्जयन्
म॒रुतो
दा॒शुषो
गृ॒हे
Halfverse: d
त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ।।
त्वाम्
स्तोमे॑भिः
भृग॑वः
वि
रु॑रुचुः
।।
तु॒वां
स्तोमे॑भिर्
भृग॑वो
वि
रु॑रुचुः
।।
Verse: 6
Halfverse: a
इषं॑ दु॒हन्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।
इषं॑ दु॒हन्सु॒दुघां॑ वि॒श्वधा॑यसं
इष॑म्
दु॒हन्
सु॒दुघा॑म्
वि॒श्वधा॑यसम्
इषं
दु॒हन्
सु॒दुघां
वि॒श्वधा॑यसं
Halfverse: b
यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।
य॑ज्ञ॒प्रिये
यज॑मानाय
सुक्रतो
।
य॑ज्ञ॒प्रिये
यज॑मानाय
सुक्रतो
।
Halfverse: c
अग्ने॑ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञम्प॑रि॒यन्सु॑क्रतूयसे ।।
अग्ने॑ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्
अग्ने
घृ॒तस्नुः
त्रिः
ऋ॒तानि
दीद्य॑त्
अग्ने
घृ॒तस्नु॑स्
त्रिर्
ऋ॒तानि
दीदि॑यद्
Halfverse: d
व॒र्तिर्य॒ज्ञम्प॑रि॒यन्सु॑क्रतूयसे ।।
व॒र्तिः
य॒ज्ञम्
परि॒यन्
सुक्रतूयसे
।।
व॒र्तिर्
य॒ज्ञम्
परि॒यन्
सुक्रतूयसे
।।
Verse: 7
Halfverse: a
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः ।
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु
त्वाम्
इत्
अ॒स्याः
उ॒षसः
व्यु॑ष्टिषु
तु॒वाम्
इद्
अ॒स्या
उ॒षसो
विउष्टिषु
Halfverse: b
दू॒तं कृ॑ण्वा॒ना अ॑यजन्त॒ मानु॑षाः ।
दू॒तम्
कृण्वा॒नाः
अ॑यजन्त
मानु॑षाः
।
दू॒तं
कृ॑ण्वा॒ना
अ॑यजन्त
मानु॑षाः
।
Halfverse: c
त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ।।
त्वां दे॒वा म॑ह॒याय्या॑य वावृधुर्
त्वाम्
दे॒वाः
म॑ह॒याय्या॑य
वावृधुः
त्वां
दे॒वा
म॑ह॒यायि॑याय
वावृधुर्
Halfverse: d
आज्य॑मग्ने निमृ॒जन्तो॑ अध्व॒रे ।।
आज्य॑म्
अग्ने
निमृ॒जन्तः
अध्व॒रे
।।
आजि॑यम्
अग्ने
निमृ॒जन्तो
अध्व॒रे
।।
Verse: 8
Halfverse: a
नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं
नि
त्वा
वसि॑ष्ठाः
अह्वन्त
वा॒जिन॑म्
नि
त्वा
वसि॑ष्ठा
अहुवन्त
वा॒जिनं
Halfverse: b
गृ॒णन्तो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
गृ॒णन्तः
अग्ने
वि॒दथे॑षु
वे॒धसः
।
गृ॒णन्तो
अग्ने
वि॒दथे॑षु
वे॒धसः
।
Halfverse: c
रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
रा॒यस्पोषं॒ यज॑मानेषु धारय
रा॒यः
पोष॑म्
यज॑मानेषु
धारय
रा॒यस्
पोषं
यज॑मानेषु
धारय
Halfverse: d
यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
यू॒यम्
पात
स्व॒स्तिभिः
सदा
नः
।।
यू॒यम्
पात
सुअ॒स्तिभिः
सदा
नः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.