TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 949
Hymn: 112_(938)
Verse: 1
Halfverse: a
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य
इन्द्र
पिब
प्रतिका॒मम्
सु॒तस्य
इन्द्र
पिब
प्रतिका॒मं
सु॒तस्य
Halfverse: b
प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
प्रा॑तःसा॒वः
तव
हि
पू॒र्वपी॑तिः
।
प्रा॑तःसा॒वस्
तव
हि
पू॒र्वपी॑तिः
।
Halfverse: c
हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒ प्र ब्र॑वाम ।।
हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑न्
हर्ष॑स्व
हन्त॑वे
शूर
शत्रू॑न्
हर्ष॑स्व
?
हन्त॑वे
शूर
शत्रू॑न्
Halfverse: d
उ॒क्थेभि॑ष्टे वी॒र्या॒ प्र ब्र॑वाम ।।
उ॒क्थेभिः
ते
वी॒र्या
प्र
ब्र॑वाम
।।
उ॒क्थेभि॑ष्
टे
वी॒रिया
प्र
ब्र॑वाम
।।
Verse: 2
Halfverse: a
यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
यस्ते॒ रथो॒ मन॑सो॒ जवी॑यान्
यः
ते
रथः
मन॑सः
जवी॑यान्
यस्
ते
रथो
?
मन॑सो
जवी॑यान्
Halfverse: b
एन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
आ
इ॑न्द्र
तेन
सोम॒पेया॑य
याहि
।
एन्द्र
तेन
सोम॒पेया॑य
याहि
।
Halfverse: c
तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ।।
तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु
तूय॑म्
आ
ते
हर॑यः
प्र
द्र॑वन्तु
तूय॑म्
आ
ते
हर॑यः
प्र
द्र॑वन्तु
Halfverse: d
येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ।।
येभिः
यासि
वृष॑भिः
मन्द॑मानः
।।
येभि॑र्
यासि
वृष॑भिर्
मन्द॑मानः
।।
Verse: 3
Halfverse: a
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य
हरि॑त्वता
वर्च॑सा
सूर्य॑स्य
हरि॑त्वता
वर्च॑सा
सूरि॑यस्य
Halfverse: b
श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
श्रेष्ठैः
रू॒पैः
त॒न्व॑म्
स्पर्शयस्व
।
श्रेष्ठै
रू॒पैस्
त॒नुवं
स्पर्शयस्व
।
Halfverse: c
अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ।।
अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः
अ॒स्माभिः
इन्द्र
सखि॑भिः
हुवा॒नः
अ॒स्माभि॑र्
इन्द्र
सखि॑भिर्
हुवा॒नः
Halfverse: d
स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ।।
स॑ध्रीची॒नः
मा॑दयस्व+
नि॒षद्य
।।
स॑ध्रीची॒नो
मा॑दयस्वा
नि॒षद्य
।।
Verse: 4
Halfverse: a
यस्य॒ त्यत्ते॑ महि॒मान॒म्मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
यस्य॒ त्यत्ते॑ महि॒मान॒म्मदे॑ष्व्
यस्य
त्यत्
ते
महि॒मान॑म्
मदे॑षु
यस्य
त्यत्
ते
महि॒मान॑म्
मदे॑षु
Halfverse: b
इ॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
इ॒मे
म॒ही
रोद॑सी
न
अवि॑विक्ताम्
।
इ॒मे
म॒ही
रोद॑सी
नावि॑विक्ताम्
।
Halfverse: c
तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मछ॑ ।।
तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः
तत्
ओकः
आ
हरि॑भिः
इन्द्र
यु॒क्तैः
तद्
ओक
आ
हरि॑भिर्
इन्द्र
यु॒क्तैः
Halfverse: d
प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मछ॑ ।।
प्रि॒येभिः
याहि
प्रि॒यम्
अन्न॑म्
अछ
।।
प्रि॒येभि॑र्
याहि
प्रि॒यम्
अन्न॑म्
अछ
।।
Verse: 5
Halfverse: a
यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑न्
यस्य
शश्व॑त्
पपि॒वान्
इन्द्र
शत्रू॑न्
यस्य
शश्व॑त्
पपि॒वाँ
इ॑न्द्र
शत्रू॑न्
Halfverse: b
अनानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
अ॑नानुकृ॒त्या
रण्या
च॒कर्थ
।
अ॑नानुकृ॒त्या
रणि॑या
च॒कर्थ
।
Halfverse: c
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोमः॑ ।।
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति
स
ते
पुरं॑धिम्
तवि॑षीम्
इयर्ति
स
ते
पुरं॑धिं
तवि॑षीम्
इयर्ति
Halfverse: d
स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोमः॑ ।।
स
ते
मदा॑य
सु॒तः
इ॑न्द्र
सोमः
।।
स
ते
मदा॑य
सु॒त
इ॑न्द्र
सोमः
।।
Verse: 6
Halfverse: a
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र
इ॒दम्
ते
पात्र॑म्
सन॑वित्तम्
इन्द्र
इ॒दं
ते
पात्रं
सन॑वित्तम्
इन्द्र
Halfverse: b
पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
पिब+
सोम॑म्
ए॒ना
श॑तक्रतो
।
पिबा
सोम॑म्
ए॒ना
श॑तक्रतो
।
Halfverse: c
पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ।।
पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो
पू॒र्णः
आ॑हा॒वः
म॑दि॒रस्य
मध्वः
पू॒र्ण
आ॑हा॒वो
म॑दि॒रस्य
मध्वो
Halfverse: d
यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ।।
यम्
विश्वे
इत्
अभि॒हर्य॑न्ति
दे॒वाः
।।
यं
विश्व
इद्
अभि॒हर्य॑न्ति
दे॒वाः
।।
Verse: 7
Halfverse: a
वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो
वि
हि
त्वाम्
इन्द्र
पुरु॒धा
जना॑सः
वि
हि
त्वाम्
इन्द्र
पुरु॒धा
जना॑सो
Halfverse: b
हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
हि॒तप्र॑यसः
वृषभ
ह्वय॑न्ते
।
हि॒तप्र॑यसो
वृषभ
ह्वय॑न्ते
।
Halfverse: c
अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्सव॑ना॒ तेषु॑ हर्य ।।
अ॒स्माकं॑ ते॒ मधु॑मत्तमानि
अ॒स्माक॑म्
ते
मधु॑मत्तमानि
अ॒स्माकं
ते
?
मधु॑मत्तमानि
Halfverse: d
इ॒मा भु॑व॒न्सव॑ना॒ तेषु॑ हर्य ।।
इ॒मा
भु॑वन्
सव॑ना
तेषु
हर्य
।।
इ॒मा
भु॑वन्
सव॑ना
तेषु
हर्य
।।
Verse: 8
Halfverse: a
प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचम्प्रथ॒मा कृ॒तानि॑ ।
प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं
प्र
ते
इन्द्र
पू॒र्व्याणि
प्र
नू॒नम्
प्र
त
इन्द्र
पूर्वि॒याणि
प्र
नू॒नं
Halfverse: b
वी॒र्या॑ वोचम्प्रथ॒मा कृ॒तानि॑ ।
वी॒र्या
वोचम्
प्रथ॒मा
कृ॒तानि
।
वी॒रिया
वोचम्
प्रथ॒मा
कृ॒तानि
।
Halfverse: c
स॑ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ।।
स॑ती॒नम॑न्युरश्रथायो॒ अद्रिं
सती॒नम॑न्युः
अश्रथायः
अद्रि॑म्
सती॒नम॑न्युर्
अश्रथायो
अद्रिं
Halfverse: d
सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ।।
सु॑वेद॒नाम्
अकृणोः
ब्रह्म॑णे
गाम्
।।
सु॑वेद॒नाम्
अकृणोर्
ब्रह्म॑णे
गाम्
।।
Verse: 9
Halfverse: a
नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
नि षु सी॑द गणपते ग॒णेषु
नि
सु
सी॑द
गणपते
ग॒णेषु
नि
षु
सी॑द
गणपते
ग॒णेषु
Halfverse: b
त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
त्वाम्
आहुः
विप्र॑तमम्
कवी॒नाम्
।
तु॒वाम्
आहुर्
विप्र॑तमं
कवी॒नाम्
।
Halfverse: c
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कम्म॑घवञ्चि॒त्रम॑र्च ।।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे
न
ऋ॒ते
त्वत्
क्रियते
किम्
च॒न
आ॒रे
न
ऋ॒ते
त्वत्
क्रियते
किं
च॒नारे
Halfverse: d
म॒हाम॒र्कम्म॑घवञ्चि॒त्रम॑र्च ।।
म॒हाम्
अ॒र्कम्
मघवन्
चि॒त्रम्
अर्च
।।
म॒हाम्
अ॒र्कम्
मघवञ्
चि॒त्रम्
अर्च
।।
Verse: 10
Halfverse: a
अ॑भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
अ॑भि॒ख्या नो॑ मघव॒न्नाध॑मानान्
अभि॒ख्या
नः
मघवन्
नाध॑मानान्
अभि॒ख्या
नो
मघवन्
नाध॑मानान्
Halfverse: b
सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
सखे
बो॒धि
व॑सुपते
सखी॑नाम्
।
सखे
बो॒धि
व॑सुपते
सखी॑नाम्
।
Halfverse: c
रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ।।
रणं॑ कृधि रणकृत्सत्यशुष्म
रण॑म्
कृधि
रणकृत्
सत्यशुष्म
रणं
कृधि
रणकृत्
सत्यशुष्म
Halfverse: d
अभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ।।
अभ॑क्ते
चित्
आ
भ॑ज+
रा॒ये
अ॒स्मान्
।।
अभ॑क्ते
चिद्
आ
भ॑जा
रा॒ये
अ॒स्मान्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.