TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 947
Hymn: 110_(936)
Verse: 1
Halfverse: a
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे
समि॑द्धः
अ॒द्य
मनु॑षः
दुरो॒णे
समि॑द्धो
अ॒द्य
मनु॑षो
दुरो॒णे
Halfverse: b
दे॒वो दे॒वान्य॑जसि जातवेदः ।
दे॒वः
दे॒वान्
यजसि
जातवेदः
।
दे॒वो
दे॒वान्
यजसि
जातवेदः
।
Halfverse: c
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्
आ
च
वह
मित्रमहः
चिकि॒त्वान्
आ
च
वह
मित्रमहश्
चिकि॒त्वान्
Halfverse: d
त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।।
त्वम्
दू॒तः
क॒विः
अ॑सि
प्रचे॑ताः
।।
तु॒वं
दू॒तः
क॒विर्
असि
प्रचे॑ताः
।।
Verse: 2
Halfverse: a
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्स्व॑दया सुजिह्व ।
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॑न्
तनू॑नपात्
प॒थः
ऋ॒तस्य
याना॑न्
तनू॑नपात्
प॒थ
ऋ॒तस्य
याना॑न्
Halfverse: b
मध्वा॑ सम॒ञ्जन्स्व॑दया सुजिह्व ।
मध्वा
सम॒ञ्जन्
स्वदय+
सुजिह्व
।
मध्वा
सम॒ञ्जन्
स्वदया
सुजिह्व
।
Halfverse: c
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ।।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्
मन्मा॑नि
धी॒भिः
उ॒त
य॒ज्ञम्
ऋ॒न्धन्
मन्मा॑नि
धी॒भिर्
उ॒त
य॒ज्ञम्
ऋ॒न्धन्
Halfverse: d
देव॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ।।
दे॑व॒त्रा
च
कृणुहि
अध्व॒रम्
नः
।।
दे॑व॒त्रा
च
कृणुहि
अध्व॒रं
नः
।।
Verse: 3
Halfverse: a
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च
आ॒जुह्वा॑नः
ईड्यः
वन्द्यः
च
आ॒जुह्वा॑न
ईडि॑यो
वन्दि॑यश्
च
Halfverse: b
आ या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।
आ
या॑हि
अग्ने
वसु॑भिः
स॒जोषाः
।
आ
या॑हि
अग्ने
वसु॑भिः
स॒जोषाः
।
Halfverse: c
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।।
त्वं दे॒वाना॑मसि यह्व॒ होता
त्वम्
दे॒वाना॑म्
असि
यह्व
होता
तु॒वं
दे॒वाना॑म्
असि
यह्व
होता
Halfverse: d
स ए॑नान्यक्षीषि॒तो यजी॑यान् ।।
सः
।!।
ए॑नान्
यक्षि
इषि॒तः
यजी॑यान्
।।
स
ए॑नान्
यक्षि
इषि॒तो
यजी॑यान्
।।
Verse: 4
Halfverse: a
प्रा॒चीन॑म्ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
प्रा॒चीन॑म्ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या
प्रा॒चीन॑म्
ब॒र्हिः
प्र॒दिशा
पृथि॒व्याः
प्रा॒चीन॑म्
ब॒र्हिः
प्र॒दिशा
पृथि॒व्या
Halfverse: b
वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
वस्तोः
अ॒स्याः
वृ॑ज्यते
अग्रे
अह्ना॑म्
।
वस्तो॑र्
अ॒स्या
वृ॑ज्यते
अग्रे
अह्ना॑म्
।
Halfverse: c
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।।
व्यु॑ प्रथते वित॒रं वरी॑यो
वि
उ
प्रथते
वित॒रम्
वरी॑यः
वि
उ
प्रथते
वित॒रं
वरी॑यो
Halfverse: d
दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।।
दे॒वेभ्यः
अदि॑तये
स्यो॒नम्
।।
दे॒वेभि॑यो
अदि॑तये
सियो॒नम्
।।
Verse: 5
Halfverse: a
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्ता॒म्पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः ।
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्ताम्
व्यच॑स्वतीः
उर्वि॒या
वि
श्र॑यन्ताम्
व्यच॑स्वतीर्
उर्वि॒या
वि
श्र॑यन्ताम्
Halfverse: b
पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः ।
पति॑भ्यः
न
जन॑यः
शुम्भ॑मानाः
।
पति॑भ्यो
न
जन॑यः
शुम्भ॑मानाः
।
Halfverse: c
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।।
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा
देवीः
द्वारः
बृहतीः
विश्वमिन्वाः
देवी॑र्
द्वारो
बृहतीर्
विश्वमिन्वा
Halfverse: d
दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।।
दे॒वेभ्यः
भवत
सुप्राय॒णाः
।।
दे॒वेभि॑यो
भवत
सुप्राय॒णाः
।।
Verse: 6
Halfverse: a
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के
आ
सु॒ष्वय॑न्ती
यज॒ते
उपा॑के
आ
सु॒ष्वय॑न्ती
यज॒ते
उपा॑के
Halfverse: b
उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
उ॒षासा॒नक्ता
सदताम्
नि
योनौ
।
उ॒षासा॒नक्ता
सदतां
नि
योनौ
।
Halfverse: c
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ।।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे
दि॒व्ये
योष॑णे
बृह॒ती
सु॑रु॒क्मे
दि॒व्ये
योष॑णे
बृह॒ती
सु॑रु॒क्मे
Halfverse: d
अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ।।
अधि
श्रिय॑म्
शुक्र॒पिश॑म्
दधा॑ने
।।
अधि
श्रियं
शुक्र॒पिशं
दधा॑ने
।।
Verse: 7
Halfverse: a
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ।
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा
दैव्या
होता॑रा
प्रथ॒मा
सु॒वाचा
दैव्या
होता॑रा
प्रथ॒मा
सु॒वाचा
Halfverse: b
मिमा॑ना य॒ज्ञम्मनु॑षो॒ यज॑ध्यै ।
मिमा॑ना
य॒ज्ञम्
मनु॑षः
यज॑ध्यै
।
मिमा॑ना
य॒ज्ञम्
मनु॑षो
यज॑ध्यै
।
Halfverse: c
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू
प्र॑चो॒दय॑न्ता
वि॒दथे॑षु
का॒रू
प्र॑चो॒दय॑न्ता
वि॒दथे॑षु
का॒रू
Halfverse: d
प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।
प्रा॒चीन॑म्
ज्योतिः
प्र॒दिशा
दि॒शन्ता
।।
प्रा॒चीनं
ज्योतिः
प्र॒दिशा
दि॒शन्ता
।।
Verse: 8
Halfverse: a
आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
आ नो॑ य॒ज्ञम्भार॑ती॒ तूय॑मेत्व्
आ
नः
य॒ज्ञम्
भार॑ती
तूय॑म्
एतु
आ
नो
य॒ज्ञम्
भार॑ती
तूय॑म्
एतु
Halfverse: b
इळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
इळा
मनु॒ष्वत्
इ॒ह
चे॒तय॑न्ती
।
इळा
मनु॒ष्वद्
इ॒ह
चे॒तय॑न्ती
।
Halfverse: c
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ।।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं
ति॒स्रः
दे॒वीः
ब॒र्हिः
आ
इ॒दम्
स्यो॒नम्
ति॒स्रो
दे॒वीर्
ब॒र्हिर्
एदं
सि॑यो॒नं
Halfverse: d
सर॑स्वती॒ स्वप॑सः सदन्तु ।।
सर॑स्वती
स्वप॑सः
सदन्तु
।।
सर॑स्वती
सुअप॑सः
सदन्तु
।।
Verse: 9
Halfverse: a
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री
यः
इ॒मे
द्यावा॑पृथि॒वी
जनि॑त्री
य
इ॒मे
द्यावा॑पृथि॒वी
जनि॑त्री
Halfverse: b
रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
रू॒पैः
अपिं॑शत्
भुव॑नानि
विश्वा
।
रू॒पैर्
अपिं॑शद्
भुव॑नानि
विश्वा
।
Halfverse: c
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।।
तम॒द्य हो॑तरिषि॒तो यजी॑यान्
तम्
अ॒द्य
हो॑तर्
इषि॒तः
यजी॑यान्
तम्
अ॒द्य
हो॑तर्
इषि॒तो
यजी॑यान्
Halfverse: d
दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।।
दे॒वम्
त्वष्टा॑रम्
इ॒ह
य॑क्षि
वि॒द्वान्
।।
दे॒वं
त्वष्टा॑रम्
इ॒ह
य॑क्षि
वि॒द्वान्
।।
Verse: 10
Halfverse: a
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वींषि॑ ।
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्
उ॒पाव॑सृज
त्मन्या
सम॒ञ्जन्
उ॒पाव॑सृज
त्मनि॑या
सम॒ञ्जन्
Halfverse: b
दे॒वाना॒म्पाथ॑ ऋतु॒था ह॒वींषि॑ ।
दे॒वाना॑म्
पाथः
ऋतु॒था
ह॒वींषि
।
दे॒वाना॑म्
पाथ
ऋतु॒था
ह॒वींषि
।
Halfverse: c
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ ।।
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः
वन॒स्पतिः
शमि॒ता
दे॒वः
अ॒ग्निः
वन॒स्पतिः
शमि॒ता
दे॒वो
अ॒ग्निः
Halfverse: d
स्वद॑न्तु ह॒व्यम्मधु॑ना घृ॒तेन॑ ।।
स्वद॑न्तु
ह॒व्यम्
मधु॑ना
घृ॒तेन
।।
स्वद॑न्तु
ह॒व्यम्
मधु॑ना
घृ॒तेन
।।
Verse: 11
Halfverse: a
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम्
स॒द्यः
जा॒तः
वि
अ॑मिमीत
य॒ज्ञम्
स॒द्यो
जा॒तो
वि
अ॑मिमीत
य॒ज्ञम्
Halfverse: b
अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒ग्निः
दे॒वाना॑म्
अभवत्
पुरो॒गाः
।
अ॒ग्निर्
दे॒वाना॑म्
अभवत्
पुरो॒गाः
।
Halfverse: c
अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ।।
अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि
अ॒स्य
होतुः
प्र॒दिशि
ऋ॒तस्य
वा॒चि
अ॒स्य
होतुः
प्र॒दिश्य्
ऋ॒तस्य
वा॒चि
Halfverse: d
स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ।।
स्वाहा॑कृतम्
ह॒विः
अ॑दन्तु
दे॒वाः
।।
स्वाहा॑कृतं
ह॒विर्
अदन्तु
दे॒वाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.