TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 3
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: a
को ऽयम्.
कः
अयम्.
Sentence: b
आत्मेति वयमुपास्महे.
आत्मा
इति
वयम्
उपास्महे.
Sentence: c
कतरः स आत्मा.
कतरः
सः
आत्मा.
Verse: 2
Sentence: a
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति.
येन
वा
पश्यति
येन
वा
शृणोति
येन
वा
गन्धान्
जिघ्रति
येन
वा
वाचम्
व्याकरोति
येन
वा
स्वादु
च
अस्वादु
च
विजानाति.
Sentence: b
यदेतद्धृदयं मनश्चैतत्.
यत्
एतत्
हृदयम्
मनः
च
एतत्.
Sentence: c
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति.
सञ्ज्ञानम्
आज्ञानम्
विज्ञानम्
प्रज्ञानम्
मेधा
दृष्टिः
धृतिः
मतिः
मनीषा
जूतिः
स्मृतिः
सङ्कल्पः
क्रतुः
असुः
कामः
वशः
इति
सर्वाणि
एव
एतानि
प्रज्ञानस्य
नामधेयानि
भवन्ति.
Verse: 3
Sentence: a
एष ब्रह्मा.
एषः
ब्रह्मा.
Sentence: b
एष इन्द्रः.
एषः
इन्द्रः.
Sentence: c
एष प्रजापतिः.
एषः
प्रजापतिः.
Sentence: d
एते सर्वे देवाः.
एते
सर्वे
देवाः.
Sentence: e
इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदम्प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम्.
इमानि
च
पञ्च
महाभूतानि
पृथिवी
वायुः
आकाशः
आपः
ज्योतींषि
इति
एतानि
इमानि
क्षुद्रमिश्राणि
इव
बीजानि
इतराणि
च
इतराणि
च
अण्डजानि
च
जारुजानि
च
स्वेदजानि
च
उद्भिज्जानि
च
अश्वाः
गावः
पुरुषाः
हस्तिनः
यत्
किञ्च
इदम्
प्राणि
जङ्गमम्
च
पतत्रि
च
यत्
च
स्थावरम्.
Sentence: f
सर्वं तत्प्रज्ञानेत्रम्.
सर्वम्
तत्
प्रज्ञानेत्रम्.
Sentence: g
प्रज्ञाने प्रतिष्ठितम्.
प्रज्ञाने
प्रतिष्ठितम्.
Sentence: h
प्रज्ञानेत्रो लोकः.
प्रज्ञानेत्रः
लोकः.
Sentence: i
प्रज्ञा प्रतिष्ठा.
प्रज्ञा
प्रतिष्ठा.
Sentence: j
प्रज्ञानं ब्रह्म.
प्रज्ञानम्
ब्रह्म.
Verse: 4
Sentence: a
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत्.
सः
एतेन
प्रज्ञेन
आत्मना
अस्मात्
लोकात्
उत्क्रम्य
अमुष्मिन्
स्वर्गे
लोके
सर्वान्
कामान्
आप्त्वा
अमृतः
समभवत्
समभवत्.
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.