TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः.
   
पुरुषे वै अयम् आदितः गर्भः भवति यत् एतत् रेतः.
Sentence: b    
तदेतत्सर्वेभ्यो ऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभर्ति.
   
तत् एतत् सर्वेभ्यः अङ्गेभ्यः तेजः सम्भूतम् आत्मनि एव आत्मानम् बिभर्ति.
Sentence: c    
तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति.
   
तत् यदा स्त्रियाम् सिञ्चति अथ एनत् जनयति.
Sentence: d    
तदस्य प्रथमं जन्म.
   
तत् अस्य प्रथमम् जन्म.

Verse: 2 
Sentence: a    
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा.
   
तत् स्त्रियाः आत्मभूयम् गच्छति यथा स्वम् अङ्गम् तथा.
Sentence: b    
तस्मादेनां न हिनस्ति.
   
तस्मात् एनाम् हिनस्ति.
Sentence: c    
सास्यैतमात्मानमत्र गतं भावयति.
   
सा अस्य एतम् आत्मानम् अत्र गतम् भावयति.

Verse: 3 
Sentence: a    
सा भावयित्री भावयितव्या भवति.
   
सा भावयित्री भावयितव्या भवति.
Sentence: b    
तं स्त्री गर्भं बिभर्ति.
   
तम् स्त्री गर्भम् बिभर्ति.
Sentence: c    
सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति.
   
सः अग्रे एव कुमारम् जन्मनः अग्रे अधि भावयति.
Sentence: d    
स यत्कुमारं जन्मनो ऽग्रे ऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्यै.
   
सः यत् कुमारम् जन्मनः अग्रे अधि भावयति आत्मानम् एव तत् भावयति एषाम् लोकानाम् सन्तत्यै.
Sentence: e    
एवं सन्तता हीमे लोकाः.
   
एवम् सन्तताः हि इमे लोकाः.
Sentence: f    
तदस्य द्वितीयं जन्म.
   
तत् अस्य द्वितीयम् जन्म.

Verse: 4 
Sentence: a    
सो ऽस्यायमात्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते.
   
सः अस्य अयम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते.
Sentence: b    
अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति.
   
अथ अस्य अयम् इतरः आत्मा कृतकृत्यः वयोगतः प्रैति.
Sentence: c    
स इतः प्रयन्नेव पुनर्जायते.
   
सः इतः प्रयन् एव पुनः जायते.
Sentence: d    
तदस्य तृतीयं जन्म.
   
तत् अस्य तृतीयम् जन्म.

Verse: 5 
Sentence: a    
तदुक्तमृषिणा.
   
तत् उक्तम् ऋषिणा.

{verse} {RV 4,27,1}
Sentence: b    
गर्भे नु सन्नन्वेषामवेदम्   अहं देवानां जनिमानि विश्वा.
   
गर्भे नु सन् अनु एषाम् *अवेदम्   अहम् देवानाम् जनिमानि विश्वा. {corr. अवेद्
Sentence: c    
शतं मा पुर आयसीररक्षन्न्   अध श्येनो जवसा निरदीयम्.
   
शतम् मा पुरः आयसीः अरक्षन्   अध श्येनः जवसा निः अदीयम्.

{prose}
Sentence: d    
इति.
   
इति.
Sentence: e    
गर्भ एवैतच्छयानो वामदेव एवमुवाच.
   
गर्भे एव एतत् शयानः वामदेवः एवम् उवाच.

Verse: 6 
Sentence: a    
स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत्.
   
सः एवम् विद्वान् अस्मात् शरीरभेदात् ऊर्ध्वम् उत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत्.

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.