TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 26
Paragraph: 5
{=
ŚBM
14.7.3} {=
ŚBK
16.6.4.}
Verse: MK1
Sentence: a
अ॒थ ह या॒ज्ञवल्क्यस्य द्वे॒ भा॒र्ये बभूवतुर्मै॒त्रेयी च कात्यायनी॒ च;
अ॒थ
ह
या॒ज्ञवल्क्यस्य
द्वे
भा॒र्ये
बभूवतुर्
मै॒त्रेयी
च
कात्यायनी
च
Sentence: b
त॒योर्ह मै॒त्रेयी ब्रह्मवादि॒नी बभूव,
त॒योस्
ह
मै॒त्रेयी
ब्रह्मवादि॒नी
बभूव
Sentence: c
स्त्रीप्र॒ज्ञैव त॒र्हि कात्यायनी.
स्त्रीप्रज्ञा
एव
त॒र्हि
कात्यायनी
Sentence: d
सो ऽन्य॒द्वृत्त॒मुपाकरिष्य॒माण
K
अथ ह याज्ञवल्क्यो ऽन्यद्वृत्तमुपाकरिष्यन्,
स॒स्
अन्य॒द्
वृत्त॒म्
उपाकरिष्य॒माणस्
K
अथ
ह
याज्ञवल्क्यस्
अन्यद्
वृत्तम्
उपाकरिष्यन्
Verse: MK2
Sentence: a
या॒ज्ञवल्क्यो:
या॒ज्ञवल्क्यस्
Sentence: b
मै॒त्रेयी॒ति होवाच
K
मैत्रेयीति होवाच याज्ञवल्क्यः:
मै॒त्रेयि
इ॒ति
ह
उवाच
K
मैत्रेयि
इति
ह
उवाच
याज्ञवल्क्यस्
Sentence: c
प्रव्रजिष्यन्वा॒ अरे ऽह॒मस्मात्स्था॒नादस्मि.
प्रव्रजिष्य॒न्
वै
अरे
अह॒म्
अस्माद्
स्था॒नाद्
अस्मि
Sentence: d
ह॒न्त ते ऽन॒या कत्यायन्या॒न्तं कर॒वाणी॒ति.
ह॒न्त
ते
अन॒या
कत्यायन्या
अ॒न्तम्
कर॒वाणि
इ॒ति
Verse: MK3
Sentence: a
सा॒ होवाच मै॒त्रेयी:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
यन्नु॒ म इयं,
य॒द्
नु
मे
इय॒म्
Sentence: c
भगोः,
भगोस्
Sentence: d
स॒र्वा पृथिवी॒ वित्ते॒न पूर्णा स्या॒त्,
स॒र्वा
पृथिवी
वित्ते॒न
पूर्णा
स्या॒त्
Sentence: e
स्यां॒ न्वहं ते॒नामृता॒हो३ ने॒ति.
स्या॒म्
नु
अह॒म्
ते॒न
अमृ॒ता
आ॒हो
न
इ॒ति
Sentence: f
ने॒ति होवाच या॒ज्ञवल्क्यो,
न
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: g
य॒थै॒वोपकरण॒वतां जीवितं,
य॒था
एव
उपकरण॒वताम्
जीवित॒म्
Sentence: h
त॒थैव॒ ते जीवितँ॒ स्याद्,
त॒था
एव
ते
जीवित॒म्
स्यात्
Sentence: i
अमृतत्व॒स्य तु॒ ना॒शास्ति वित्तेने॒ति.
अमृतत्व॒स्य
तु
न
आशा
अस्ति
वित्ते॒न
इ॒ति
Verse: MK4
Sentence: a
सा॒ होवाच मै॒त्रेयी:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
ये॒नाहं॒ नामृ॒ता स्यां,
ये॒न
अह॒म्
न
अमृ॒ता
स्या॒म्
Sentence: c
कि॒महं ते॒न कुर्यां.
कि॒म्
अह॒म्
ते॒न
कुर्याम्
Sentence: d
य॒देव भ॒गवान्वे॒द,
य॒द्
एव
भ॒गवान्
वे॒द
Sentence: e
त॒देव॒ मे ब्रूही॒ति.
त॒द्
एव
मे
ब्रूहि
इ॒ति
Verse: MK5
Sentence: a
स॒ होवाच या॒ज्ञवल्क्यः:
स
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: b
प्रिया
K
add
.
वै
ख॒लु नो भ॒वती सती,
प्रिया
K
add
.
वै
ख॒लु
नस्
भ॒वती
सती
Sentence: c
प्रिय॒म्
अ॒वृतद्
K
अवृधद्;
प्रिय॒म्
अ॒वृतत्
K
अवृधत्
Sentence: d
ध॒न्त
ख॒लु
K
तर्हि,
ह॒न्त
ख॒लु
K
तर्हि
Sentence: e
भवति,
भवति
Sentence: f
ते ऽहं त॒द्वक्ष्यामि,
ते
अह॒म्
त॒द्
वक्ष्यामि
Sentence: g
व्या॒ख्यामि ते;
व्या॒ख्यामि
ते
Sentence: h
वा॒चं तु॒ मे नि॒दिध्यासस्वे॒ति
वा॒चम्
तु
मे
नि॒दिध्यासस्व
इ॒ति
[
K
add
.:]
भवत्य्,
भवति
Sentence: i
एतद्व्याख्यास्यामि ते;
एतद्
व्याख्यास्यामि
ते
Sentence: j
व्याचक्षाणस्य तु॒ मे निदिध्यासस्वेति.
व्याचक्षाणस्य
तु
मे
निदिध्यासस्व
इति
Sentence: k
ब्र॒वीतु भ॒गवान्
इ॒ति
[K
om.
].
ब्र॒वीतु
भ॒गवान्
इ॒ति
[K
om.
].
Verse: MK6
Sentence: a
स॒ होवाच
या॒ज्ञवल्क्यो
K
om.
]
:
स
ह
उवाच
या॒ज्ञवल्क्यस्
K
om.
]
Sentence: b
न वा॒ अरे प॒त्युः का॒माय प॒तिः प्रियो॒ भवत्य्,
न
वै
अरे
प॒त्युर्
का॒माय
प॒तिस्
प्रिय॒स्
भवति
Sentence: c
आत्म॒नस्तु का॒माय प॒तिः प्रियो॒ भवति;
आत्म॒नस्
तु
का॒माय
प॒तिस्
प्रिय॒स्
भवति
Sentence: d
न वा॒ अरे जाया॒यै का॒माय जाया॒ प्रिया॒ भवत्य्,
न
वै
अरे
जाया॒यै
का॒माय
जाया
प्रिया
भवति
Sentence: e
आत्म॒नस्तु का॒माय जाया॒ प्रिया॒ भवति;
आत्म॒नस्
तु
का॒माय
जाया
प्रिया
भवति
Sentence: f
न वा॒ अरे पुत्रा॒णां का॒माय पुत्राः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
पुत्रा॒णाम्
का॒माय
पुत्रा॒स्
प्रिया
भवन्ति
Sentence: g
आत्म॒नस्तु का॒माय पुत्राः॒ प्रिया॒ भवन्ति;
आत्म॒नस्
तु
का॒माय
पुत्रा॒स्
प्रिया
भवन्ति
Sentence: h
न वा॒ अरे वित्त॒स्य का॒माय वित्तं॒ प्रियं॒ भवत्य्,
न
वै
अरे
वित्त॒स्य
का॒माय
वित्त॒म्
प्रिय॒म्
भवति
Sentence: i
आत्म॒नस्तु का॒माय वित्तं॒ प्रियं॒ भवति;
आत्म॒नस्
तु
का॒माय
वित्त॒म्
प्रिय॒म्
भवति
Sentence: j
न वा॒ अरे ब्र॒ह्मणः का॒माय ब्र॒ह्म प्रियं॒ भवत्य्,
न
वै
अरे
ब्र॒ह्मणस्
का॒माय
ब्र॒ह्म
प्रिय॒म्
भवति
Sentence: k
आत्म॒नस्तु का॒माय ब्र॒ह्म प्रियं॒ भवति;
आत्म॒नस्
तु
का॒माय
ब्र॒ह्म
प्रिय॒म्
भवति
Sentence: l
न वा॒ अरे क्षत्र॒स्य का॒माय क्षत्रं॒ प्रियं॒ भवत्य्,
न
वै
अरे
क्षत्र॒स्य
का॒माय
क्षत्र॒म्
प्रिय॒म्
भवति
Sentence: m
आत्म॒नस्तु का॒माय क्षत्रं॒ प्रियं॒ भवति;
आत्म॒नस्
तु
का॒माय
क्षत्र॒म्
प्रिय॒म्
भवति
Sentence: n
न वा॒ अरे लोका॒नां का॒माय लोकाः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
लोका॒नाम्
का॒माय
लोका॒स्
प्रिया॒स्
भवन्ति
Sentence: o
आत्म॒नस्तु का॒माय लोकाः॒ प्रिया॒ भवन्ति;
आत्म॒नस्
तु
का॒माय
लोका॒स्
प्रिया॒स्
भवन्ति
Sentence: p
न वा॒ अरे देवा॒नां का॒माय देवाः॒ प्रिया॒ भवन्त्य्,
न
वै
अरे
देवा॒नाम्
का॒माय
देवा॒स्
प्रिया॒स्
भवन्ति
Sentence: q
आत्म॒नस्तु का॒माय देवाः॒ प्रिया॒ भवन्ति;
आत्म॒नस्
तु
का॒माय
देवा॒स्
प्रिया॒स्
भवन्ति
Sentence: r
न वा॒ अरे भूता॒नां का॒माय भूता॒नि प्रिया॒णि भवन्त्य्,
न
वै
अरे
भूता॒नाम्
का॒माय
भूता॒नि
प्रिया॒णि
भवन्ति
Sentence: s
आत्म॒नस्तु का॒माय भूता॒नि प्रिया॒णि भवन्ति;
आत्म॒नस्
तु
का॒माय
भूता॒नि
प्रिया॒णि
भवन्ति
Sentence: t
न वा॒ अरे स॒र्वस्य का॒माय स॒र्वं प्रियं॒ भवत्य्,
न
वै
अरे
स॒र्वस्य
का॒माय
स॒र्वम्
प्रिय॒म्
भवति
Sentence: u
आत्म॒नस्तु का॒माय स॒र्वं प्रियं॒ भवत्य्;
आत्म॒नस्
तु
का॒माय
स॒र्वम्
प्रिय॒म्
भवति
Sentence: v
आत्मा वा॒ अरे द्रष्ट॒व्यः श्रोत॒व्यो मन्त॒व्यो निदिध्यासित॒व्यो,
अत्मा
वै
अरे
द्रष्ट॒व्यस्
श्रोत॒व्यस्
मन्त॒व्यस्
निदिध्यासित॒व्यस्
Sentence: w
मै॒त्रेय्य्;
मै॒त्रेयि
Sentence: x
आत्म॒नो वा॒ अरे द॒र्शनेन श्र॒वणेन मत्या॒ विज्ञा॒नेनेदँ स॒र्वं विदित॒म्.
आत्म॒नस्
वै
अरे
द॒र्शनेन
श्र॒वणेन
मत्या
विज्ञा॒नेन
इद॒म्
स॒र्वम्
विदित॒म्
Verse: MK7
Sentence: a
ब्र॒ह्म तं प॒रादाद्,
ब्र॒ह्म
त॒म्
प॒रादात्
Sentence: b
यो ऽन्य॒त्रात्म॒नो वे॒दान्वे॒द;
य॒स्
अन्य॒त्र
आत्म॒नस्
वे॒दान्
Sentence: c
वे॒दास्तं प॒रादुर्,
वे॒द
वे॒दास्
त॒म्
प॒रादुर्
Sentence: d
यो ऽन्य॒त्रात्म॒नो वे॒दान्वे॒द;
य॒स्
अन्य॒त्र
आत्म॒नस्
वे॒दान्
वे॒द
Sentence: e
यज्ञास्तं प॒रादुर्,
यज्ञा॒स्
त॒म्
प॒रादुर्
Sentence: f
यो ऽन्य॒त्रात्म॒नो यज्ञान्वे॒द
य॒स्
अन्य॒त्र
आत्म॒नस्
यज्ञा॒न्
वे॒द
[
K
add
.:]
ब्रह्म तं परादाद्,
क्
ब्रह्म
तम्
परादात्
Sentence: g
यो ऽन्यत्रात्मनो ब्रह्म वेद;
यस्
अन्यत्र
आत्मनस्
ब्रह्म
वेद
Sentence: h
क्षत्रं तं परादाद्,
क्षत्रम्
तम्
प्रादात्
Sentence: i
यो ऽन्यत्रात्मनः क्षत्रं वेद;
यस्
अन्यत्र
आत्मनस्
क्षत्रम्
वेद
Sentence: j
लोकास्तं परादुर्,
लोकास्
तम्
परादुर्
Sentence: k
यो ऽन्यत्रात्मनो लोकान्वेद;
यस्
अन्यत्र
आत्मनस्
लोकान्
वेद
Sentence: l
देवास्तं परादुर्,
देवास्
तम्
परादुर्
Sentence: m
यो ऽन्यत्रात्मनो देवान्वेद;
यस्
अन्यत्र
आत्मनस्
देवान्
वेद
Sentence: n
वेदास्तं परादुर्,
वेदास्
तम्
परादुर्
Sentence: o
यो ऽन्यत्रात्मनो वेदान्वेद;
यस्
अन्यत्र
आत्मनस्
वेदान्
वेद
Sentence: p
भूता॒नि तं प॒रादुर्,
भूता॒नि
त॒म्
प॒रादुर्
Sentence: q
यो ऽन्य॒त्रात्म॒नो भूता॒नि वे॒द;
य॒स्
अन्य॒त्र
आत्म॒नस्
भूता॒नि
वे॒द
Sentence: r
स॒र्वं तं प॒रादाद्,
स॒र्वम्
त॒म्
प॒रादात्
Sentence: s
यो ऽन्य॒त्रात्म॒नः स॒र्वं वे॒द;
य॒स्
अन्य॒त्र
आत्म॒नस्
स॒र्वम्
वे॒द
Sentence: t
इदं ब्र॒ह्मेदं॒ क्षत्र॒मिमे॒ लोका॒ इमे॒ देवा॒ इमे वे॒दा इमा॒नि भूता॒नीदँ स॒र्वं य॒दय॒मात्मा.
इद॒म्
ब्र॒ह्म
इद॒म्
क्षत्र॒म्
इमे
लोका॒स्
इमे
देवा॒स्
इमे
वे॒दास्
इमा॒नि
भूता॒नि
इद॒म्
स॒र्वम्
य॒द्
अय॒म्
आत्मा
Verse: MK8
Sentence: a
स य॒था दुन्दुभे॒र्हन्य॒मानस्य न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
दुन्दुभे॒स्
हन्य॒मानस्य
न
बा॒ह्यान्
श॒ब्दान्
शक्नुया॒त्
ग्र॒हणाय
Sentence: b
दुन्दुभेस्तु ग्र॒हणेन दुन्दुभ्याघात॒स्य वा श॒ब्दो गृहीतः.
दुन्दुभे॒स्
तु
ग्र॒हणेन
दुन्दुभ्याघात॒स्य
वा
श॒ब्दस्
गृहीत॒स्
Verse: M9/K10
Sentence: a
स य॒था वी॒णायै वाद्य॒मानायै न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
वी॒णायै
वाद्य॒मानायै
न
बा॒ह्यान्
श॒ब्दान्
शक्नुया॒त्
ग्र॒हणाय
Sentence: b
वी॒णायै तु ग्र॒हणेन वीणावाद॒स्य वा श॒ब्दो ग्र्हीतः.
वी॒णायै
तु
ग्र॒हणेन
वीणावाद॒स्य
वा
श॒ब्दस्
ग्र्हीत॒स्
Verse: M10/K9
Sentence: a
स य॒था शङ्ख॒स्य ध्माय॒मानस्य न बा॒ह्याञ्छ॒ब्दाञ्छक्नुयाद्ग्र॒हणाय,
स
य॒था
शङ्ख॒स्य
ध्माय॒मानस्य
न
बा॒ह्यान्
श॒ब्दान्
शक्नुया॒त्
ग्र॒हणाय
Sentence: b
शङ्ख॒स्य तु ग्र॒हणेन शङ्खध्म॒स्य वा श॒ब्दो गृहीतः.
शङ्ख॒स्य
तु
ग्र॒हणेन
शङ्खध्म॒स्य
वा
श॒ब्दस्
गृहीत॒स्
Verse: MK11
Sentence: a
स य॒थार्द्रैधाग्ने॒रभ्या॒हितस्य पृ॒थग्धूमा॒ विनिश्च॒रन्त्य्,
स
य॒था
आर्द्रैधाग्ने॒स्
अभ्या॒हितस्य
पृ॒थक्
धूमा॒स्
विनिश्च॒रन्ति
Sentence: b
एवं वा॒ अरे ऽस्य महतो॒ भूत॒स्य
नि॒श्वसितम्
K
निःश्वसितम्
एतद्य॒दृग्वेदो॒ यजुर्वेदः॒ सामवे॒दो ऽथर्वाङ्गिर॒स इतिहासः॒ पुराणं॒ विद्या॒ उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒ननि
दत्त॒म्
K
इष्टं
हुत॒माशितं॒ पायित॒मयं॒ च लोकः प॒रश्च लोकः स॒र्वाणि च भूता॒न्य॒स्यै॒वैता॒नि स॒र्वाणि
नि॒श्वसितानि
K
निःश्वसितानि.
एव॒म्
वै
अरे
अस्य
महत॒स्
भूत॒स्य
नि॒श्वसितम्
K
निःश्वसितम्
एत॒द्
य॒द्
ऋग्वेद॒स्
यजुर्वेद॒स्
सामवेद॒स्
अथर्वाङ्गिर॒सस्
इतिहास॒स्
पुराण॒म्
विद्या॒स्
उपनिष॒दस्
श्लो॒कास्
सू॒त्राणि
अनुव्याख्या॒नानि
व्याख्या॒ननि
दत्त॒म्
K
इष्टम्
हुत॒म्
आशित॒म्
पायित॒म्
अय॒म्
च
लोक॒स्
प॒रस्
च
लोक॒स्
स॒र्वाणि
च
भूता॒नि
अस्य
एव
एता॒नि
स॒र्वाणि
नि॒श्वसितानि
K
निःश्वसितानि
Verse: MK12
Sentence: a
स य॒था स॒र्वासामपाँ॒ समुद्र॒ एकायन॒म्,
स
य॒था
स॒र्वासाम्
अपा॒म्
समुद्र॒स्
एकायन॒म्
Sentence: b
एवँ स॒र्वेषाँ स्पर्शा॒नां त्व॒गेकायन॒म्,
एव॒म्
स॒र्वेषाम्
स्पर्शा॒नाम्
त्व॒क्
एकायन॒म्
Sentence: c
एवँ स॒र्वेषां गन्धा॒नां ना॒सिके एकायन॒म्,
एव॒म्
स॒र्वेषाम्
गन्धा॒नाम्
ना॒सिके
एकायन॒म्
Sentence: d
एवँ स॒र्वेषाँ र॒सानां जि॒ह्वैकायन॒म्,
एव॒म्
स॒र्वेषाम्
र॒सानाम्
जिह्वा
एकायन॒म्
Sentence: e
एवँ स॒र्वेषाँ रूपा॒णां च॒क्षुरेकायन॒म्,
एव॒म्
स॒र्वेषाम्
रूपा॒णाम्
च॒क्षुस्
एकायन॒म्
Sentence: f
एवँ स॒र्वेषं श॒ब्दानां श्रो॒त्रमेकायन॒म्,
एव॒म्
स॒र्वेषम्
श॒ब्दानाम्
श्रो॒त्रम्
एकायन॒म्
Sentence: g
एवँ स॒र्वेषाँ सङ्कल्पा॒नां
म॒न एकायन॒म्,
K
मन एकायनम्
एव॒म्
स॒र्वेषाम्
सङ्कल्पा॒नाम्
म॒नस्
एकायन॒म्
K
मनस्
एकायनम्
Sentence: h
एवँ स॒र्वेषां वे॒दानां हृ॒दयमेकायन॒म्,
एव॒म्
स॒र्वेषाम्
वे॒दानाम्
हृ॒दयम्
एकायन॒म्
एवँ सर्वासां विद्यानाँ हृदयमेकायनम्,
एवम्
सर्वासाम्
विद्यानाम्
हृ॒दयम्
एकायनम्
Sentence: i
एवँ स॒र्वेषां क॒र्मणाँ ह॒स्तावेकायन॒म्,
एव॒म्
स॒र्वेषाम्
क॒र्मणाम्
ह॒स्तौ
एकायन॒म्
एवँ सर्वेषां कर्मणाँ हस्तावेकायनम्,
एवम्
सर्वेषाम्
कर्मणाम्
हस्तौ
एकायनम्
Sentence: j
एवँ स॒र्वेषाम॒ध्वनां पा॒दावेकायन॒म्,
एव॒म्
स॒र्वेषाम्
अ॒ध्वनाम्
पा॒दौ
एकायन॒म्
एवँ सर्वेषामानन्दानामुपस्थ एकायनम्,
एवम्
सर्वेषाम्
आनन्दानाम्
उपस्थस्
एकायनम्
Sentence: k
एवँ स॒र्वेषामानन्दा॒नामुप॒स्थ एकायन॒म्,
एव॒म्
स॒र्वेषाम्
आनन्दा॒नाम्
उप॒स्थस्
एकायन॒म्
एवँ सर्वेषां विसर्गाणां पायुरेकायनम्,
एवम्
सर्वेषाम्
विसर्गाणाम्
पायुस्
एकायनम्
Sentence: l
एवँ स॒र्वेषां विसर्गा॒णां पा॒युरेकायन॒म्,
एव॒म्
स॒र्वेषाम्
विसर्गा॒णाम्
पा॒युस्
एकायन॒म्
एवँ सर्वेषामध्वनां पादावेकायनम्,
एवम्
सर्वेषाम्
अध्वनाम्
पादौ
एकायनम्
Sentence: m
एवँ स॒र्वासां विद्या॒नाँवा॒गेकायन॒म्
एव॒म्
स॒र्वासाम्
विद्या॒नाम्
वा॒क्
एकायन॒म्
एवँ सर्वेषां वेदानां वागेकायनम्.
एवम्
सर्वेषाम्
वेदानाम्
वाक्
एकायनम्
Verse: MK13
Sentence: a
स य॒था सैन्धवघ॒नो ऽनन्त॒रो ऽबाह्यः॒ कृत्स्नो॒ रसघन॒ एव
स्या॒द्
K
om.
]
,
स
य॒था
सैन्धवघन॒स्
अनन्तर॒स्
अबाह्य॒स्
कृत्स्न॒स्
रसघन॒स्
एव
स्या॒त्
K
om.
]
Sentence: b
एवं वा
अरे इदं॒ मह॒द्भूत॒मनन्त॒मपरं
K
अरे ऽयमात्मानन्तरो ऽबाह्यः
कृत्स्नः॒ प्रज्ञानघन॒ ए॒वैते॒भ्यो भूते॒भ्यः समुत्था॒य ता॒नि ए॒वानुवि॒नयति;
एव॒म्
वै
अरे
इद॒म्
मह॒त्
भूत॒म्
अनन्त॒म्
अपर॒म्
K
अरे
अयम्
आत्मा
अनन्तरस्
अबाह्यस्
कृत्स्न॒स्
प्रज्ञानघन॒स्
एव
एते॒भ्यस्
भूते॒भ्यस्
समुत्था॒य
ता॒नि
एव
अनुवि॒नयति
Sentence: c
न प्रे॒त्य सं॒ज्ञास्ती॒त्यरे ब्रविमी॒ति होवाच या॒ज्ञवल्क्यः.
न
प्रे॒त्य
संज्ञा
अस्ति
इ॒ति
अरे
ब्रविमि
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Verse: MK14
Sentence: a
सा॒ होवाच मै॒त्रेय्य्:
सा
ह
उवाच
मै॒त्रेयी
Sentence: b
अ॒त्रैव॒ मा भ॒गवान्मोहान्तमा॒पीपदन्:
अ॒त्र
एव
मा
भ॒गवान्
मोहान्त॒म्
आ॒पीपदत्
Sentence: c
न वा॒ अह॒मिमं वि॒जानामी॒ति:
न
वै
अह॒म्
इम॒म्
वि॒जानामि
इ॒ति
Sentence: d
न प्रे॒त्य सं॒ज्ञास्ती॒ति
K
om
.
न....
न
प्रे॒त्य
संज्ञा
अस्ति
इ॒ति
K
om
.
न
...
Verse: M15/K14
Sentence: a
स॒ होवाच
या॒ज्ञवल्क्यो
K
om.
]
:
स
ह
उवाच
या॒ज्ञवल्क्यस्
K
om.
]
Sentence: b
न वा॒ अरे ऽहं मो॒हं ब्रवीम्य्;
न
वै
अरे
अह॒म्
मो॒हम्
ब्रवीमि
Sentence: c
अविनाशी वा॒ अरे ऽय॒मात्मा॒नुच्छित्तिधर्मा,
अविनाशी
वै
अरे
अय॒म्
आत्मा
अ॒नुच्छित्तिधर्मा
Sentence: d
मात्रासँसर्ग॒स्त्वस्य भवति
K
om
.
मात्राṯ....
मात्रासँसर्ग॒स्
तु
अस्य
भवति
K
om
.
मात्राṯ
...
Verse: MK16
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न प॒श्यति,
य॒द्
वै
त॒द्
न
प॒श्यति
Sentence: b
प॒श्यन्वै त॒द्द्रष्ट॒व्यं न॒ पश्यति;
प॒श्यन्
वै
त॒द्
द्रष्ट॒व्यम्
न
पश्यति
Sentence: c
न हि॒ द्रष्टु॒र्दृष्टे॒र्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
द्रष्टु॒र्
दृष्टे॒स्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं यत्प॒श्येत्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
प॒श्येत्
Verse: MK17
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न जि॒घ्रति,
य॒द्
वै
त॒द्
न
जि॒घ्रति
Sentence: b
जि॒घ्रन्वै त॒द्घ्रत॒व्यं न॒ जिघ्रति;
जि॒घ्रन्
वै
त॒द्
घ्रात॒व्यम्
न
जिघ्रति
Sentence: c
न हि॒ घ्रातु॒र्घ्राते॒र्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
घ्रातु॒र्
घ्राते॒स्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं यज्जि॒घ्रेत्
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
जि॒घ्रेत्
Verse: MK18
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न॒ रस॒यति,
य॒द्
वै
त॒द्
न
रस॒यति
Sentence: b
विजानन्वै तद्र॒सं न॒ रसयति;
विजान॒न्
वै
त॒द्
र॒सम्
न
रसयति
Sentence: c
न हि॒ रसयितू र॒साद्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
रसयितु॒र्
र॒साद्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं य॒द्रस॒येत्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
रस॒येत्
Verse: MK19
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न व॒दति,
य॒द्
वै
त॒द्
न
व॒दति
Sentence: b
व॒दन्वै त॒द्वक्त॒व्यं न॒ वदति;
व॒दन्
वै
त॒द्
वक्त॒व्यम्
न
वदति
Sentence: c
न हि॒ वक्तुर्व॒चो विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
वक्तु॒र्
व॒चस्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं यद्व॒देत्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
व॒देत्
Verse: MK20
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न॒ शृणो॒ति,
य॒द्
वै
त॒द्
न
शृणो॒ति
Sentence: b
शृण्वन्वै त॒च्छ्रोत॒व्यं न॒ शृणोति;
शृण्व॒न्
वै
त॒द्
श्रोत॒व्यम्
न
शृणोति
Sentence: c
न हि॒ श्रोतुः॒ श्रुते॒र्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
श्रोतु॒र्
श्रुते॒स्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं य॒च्छृणुया॒त्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
शृणुया॒त्
Verse: MK21
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न॒ मनुते,
य॒द्
वै
त॒द्
न
मनुते
Sentence: b
मन्वानो वै त॒न्मन्त॒व्यं न॒ मनुते;
मन्वान॒स्
वै
त॒द्
मन्त॒व्यम्
न
मनुते
Sentence: c
न हि॒ मन्तु॒र्मते॒र्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
मन्तु॒र्
मते॒स्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं य॒न्मन्वीत.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
मन्वीत
Verse: MK22
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न॒ स्पृश॒ति,
य॒द्
वै
त॒द्
न
स्पृश॒ति
Sentence: b
स्पृशन्वै त॒त्स्प्रष्ट॒व्यं न॒ स्पृशति;
स्पृश॒न्
वै
त॒द्
स्प्रष्ट॒व्यम्
न
स्पृशति
Sentence: c
न हि॒ स्प्रष्टुः॒ स्पृष्टे॒र्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
स्प्रष्टु॒र्
स्पृष्टे॒स्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं य॒त्स्पृशे॒त्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
स्पृशे॒त्
Verse: MK23
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
यद्वै तन्न॒ विजाना॒ति,
य॒द्
वै
त॒द्
न
विजाना॒ति
Sentence: b
विजानन्वै त॒द्विज्ञे॒यं न वि॒जानाति;
विजान॒न्
वै
त॒द्
विज्ञे॒यम्
न
वि॒जानाति
Sentence: c
न हि॒ विज्ञातु॒र्विज्ञा॒नाद्विपरिलोपो॒ विद्यते॒ ऽविनाशित्वान्,
न
हि
विज्ञातु॒र्
विज्ञा॒नाद्
विपरिलोप॒स्
विद्य॒ते
अ॒विनाशित्वाद्!
Sentence: d
न तु त॒द्द्विती॒यमस्ति,
न
तु
त॒द्
द्विती॒यम्
अस्ति
Sentence: e
त॒तो ऽन्यद्वि॒भक्तं य॒द्विजानीया॒त्.
त॒तस्
अन्य॒द्
वि॒भक्तम्
य॒द्
विजानीया॒त्
Verse: M24
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
य॒त्र वा॒ अन्य॒दिव स्या॒त्,
य॒त्र
वै
अन्य॒द्
इव
स्या॒त्
Sentence: b
त॒त्र॒ ऽन्यो ऽन्य॒त्पश्येद्,
त॒त्र
अन्य॒स्
अन्य॒द्
पश्येत्
Sentence: c
अ॒न्यो ऽन्य॒ज्जिघ्रेद्,
अन्य॒स्
अन्य॒द्
जिघ्रेत्
Sentence: d
अ॒न्यो ऽन्य॒द्रसयेद्,
अन्य॒स्
अन्य॒द्
रसयेत्
Sentence: e
अ॒न्यो ऽन्य॒द्वदेद्,
अन्य॒स्
अन्य॒द्
वदेत्
Sentence: f
अ॒न्यो ऽन्य॒च्छृणुयाद्,
अन्य॒स्
अन्य॒द्
शृणुयात्
Sentence: g
अ॒न्यो ऽन्य॒न्मन्वीता॒न्यो ऽन्य॒त्स्पृशेद्,
अन्य॒स्
अन्य॒द्
मन्वीत
अन्य॒स्
अन्य॒द्
स्पृशेत्
Sentence: h
अ॒न्यो ऽन्यद्वि॒जानीयात्.
अन्य॒स्
अन्य॒द्
वि॒जानीयात्
Verse: M25
[pro
M
16-25,
K
scribit
15;
vide
infra]
Sentence: a
य॒त्र॒ त्वस्य स॒र्वमा॒त्मैवा॒भूत्,
य॒त्र
तु
अस्य
स॒र्वम्
आत्मा
एव
अ॒भूत्
Sentence: b
तत्के॒न कं॒ पश्येत्,
त॒द्
के॒न
क॒म्
पश्येत्
Sentence: c
तत्के॒न कं॒ जिघ्रेत्,
त॒द्
के॒न
क॒म्
जिघ्रेत्
Sentence: d
तत्के॒न कँ॒ रसयेत्,
त॒द्
के॒न
क॒म्
रसयेत्
Sentence: e
तत्के॒न क॒मभि॒वदेत्,
त॒द्
के॒न
क॒म्
अभि॒वदेत्
Sentence: f
तत्के॒न कं शृणुयात्,
त॒द्
के॒न
कम्
शृणुयात्
Sentence: g
तत्के॒न कं॒ मन्वीत,
त॒द्
के॒न
क॒म्
मन्वीत
Sentence: h
तत्के॒न कँ स्पृशेत्,
त॒द्
के॒न
कम्
स्पृशेत्
Sentence: i
तत्के॒न कं वि॒जानीयाद्.
त॒द्
के॒न
क॒म्
वि॒जानीयात्
Sentence: j
ये॒नेदँ स॒र्वं विजाना॒ति,
ये॒न
इद॒म्
स॒र्वम्
विजाना॒ति
Sentence: k
तं के॒न वि॒जानीयाद्.
त॒म्
के॒न
वि॒जानीयात्
Sentence: l
विज्ञाता॒रमरे के॒न वि॒जानीयादि॒त्युक्ता॒नुशासनासि,
विज्ञाता॒रम्
अरे
के॒न
वि॒जानीयात्
इ॒ति
उक्ता॒नुशासना
असि
Sentence: m
मै॒त्रेय्य्;
मै॒त्रेयि
Sentence: n
एता॒वदरे ख॒ल्वमृतत्वमि॒ति होक्त्वा या॒ज्ञवल्क्यो प्र॒वव्रज.
एता॒वत्
अरे
ख॒लु
अमृतत्व॒म्
इ॒ति
ह
उक्त्वा
या॒ज्ञवल्क्यस्
प्र॒वव्रज
Verse: K15
[K
scribit
pro
M
24-25;
vide
supra]
Sentence: a
यत्र हि द्वैतमिव भवति,
यत्र
हि
द्वैतम्
इव
भवति
Sentence: b
तदितर इतरं पश्यति,
तद्
इतरस्
इतरम्
पश्यति
Sentence: c
तदितर इतरं जिघ्रति,
तद्
इतरस्
इतरम्
जिघ्रति
Sentence: d
तदितर इतरँ रसयति,
तद्
इतरस्
इतरम्
रसयति
Sentence: e
तदितर इतरमभिवदति,
तद्
इतरस्
इतरम्
अभिवदति
Sentence: f
तदितर इतरँ शृणोति,
तद्
इतरस्
इतरम्
शृणोति
Sentence: g
तदितर इतरं मनुते,
तद्
इतरस्
इतरम्
मनुते
Sentence: h
तदितर इतरँ स्पृशति,
तद्
इतरस्
इतरम्
स्पृशति
Sentence: i
तदितर इतरं विजानाति.
तद्
इतरस्
इतरम्
विजानाति
Sentence: j
यत्र त्वस्य सर्वमात्मैवाभूत्,
यत्र
तु
अस्य
सर्वम्
आत्मा
एव
अभूत्
Sentence: k
तत्केन कं पश्येत्,
तद्
केन
कम्
पश्येत्
Sentence: l
तत्केन कं जिघ्रेत्,
तद्
केन
कम्
जिघ्रेत्
Sentence: m
तत्केन कँ रसयेत्,
तद्
केन
कम्
रसयेत्
Sentence: n
तत्केन कमभिवदेत्,
तद्
केन
कम्
अभिवदेत्
Sentence: o
तत्केन कँ शृणुयात्,
तद्
केन
कम्
शृणुयात्
Sentence: p
तत्केन कं मन्वीत,
तद्
केन
कम्
मन्वीत
Sentence: q
तत्केन कँ स्पृशेत्,
तद्
केन
कम्
स्पृशेत्
Sentence: r
तत्केन कं विजानीयाद्.
तद्
केन
कम्
विजानीयात्
Sentence: s
येनेदँ सर्वं विजानाति,
येन
इदम्
सर्वम्
विजानाति
Sentence: t
तं केन विजानीयात्.
तम्
केन
विजानीयात्
Sentence: u
स एष नेति नेत्यात्मागृह्यो न हि गृह्यते,
सस्
एष
न
इति
न
इति
आत्मा
अगृह्यस्
न
हि
गृह्यते
Sentence: v
ऽशीर्यो न हि शीर्यते,
अशीर्यस्
न
हि
शीर्यते
Sentence: w
ऽसङ्गो न हि सज्यते,
असङ्गस्
न
हि
सज्यते
Sentence: x
ऽसितो न व्यथते न रिष्यति.
असितस्
न
व्यथते
न
रिष्यति!!
Sentence: y
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि,
विज्ञातारम्
अरे
केन
विजानीयात्
इति
उक्तानुशासना
असि
Sentence: z
मैत्रेय्य्;
मैत्रेयि
Sentence: aa
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार.
एतावत्
अरे
खलु
अमृतत्वम्
इति
ह
उक्त्वा
याज्ञवल्क्यस्
विजहार
Verse: M26
[pro
M
5,26-28,
scribit
K
6;
vide
infra]
Sentence: a
अ॒थ वँश॒स्.
अ॒थ
वँश॒स्
Sentence: b
त॒दिदं॒ वयं
त॒द्
इद॒म्
वय॒म्
Sentence: c
शौ॒र्पणाय्याच्,
शौ॒र्पणाय्याद्
Sentence: d
छौ॒र्पणय्यो गौ॒तमाद्,
शौ॒र्पणय्यस्
गौ॒तमाद्
Sentence: e
गौ॒तमो व॒त्स्याद्,
गौ॒तमस्
व॒त्स्याद्
Sentence: f
व॒त्स्यो वा॒त्स्याच्च पाराशर्या॒च्च,
व॒त्स्यस्
वा॒त्स्याद्
च
पाराशर्या॒द्
च
Sentence: g
पाराशर्यः सां॒कृत्याच्च भा॒रद्वाजाच्च,
पाराशर्य॒स्
सां॒कृत्याद्
च
भा॒रद्वाजाद्
च
Sentence: h
भा॒रद्वाज अौदावहे॒श्च शा॒ण्डिल्याच्च,
भा॒रद्वाजस्
अौदावहे॒स्
च
शा॒ण्डिल्याद्
च
Sentence: i
शा॒ण्डिल्यो वै॒जवापाच्च गौतमा॒च्च,
शा॒ण्डिल्यस्
वै॒जवापाद्
च
गौतमा॒द्
च
Sentence: j
गौ॒तमो वै॒जवापायनाच्च वैष्टपुरेया॒च्च,
गौ॒तमस्
वै॒जवापायनाद्
च
वैष्टपुरेया॒द्
च
Sentence: k
वै॒ष्टपुरेयः शा॒ण्डिल्याच्च रौहिणायना॒च्च,
वै॒ष्टपुरेयस्
शा॒ण्डिल्याद्
च
रौहिणायना॒द्
च
Sentence: l
रौ॒हिणायनः शौ॒नकाच्च जैवन्तायना॒च्च रैभ्या॒च्च,
रौ॒हिणायनस्
शौ॒नकाद्
च
जैवन्तायना॒द्
च
रैभ्या॒द्
च
Sentence: m
रै॒भ्यः पौ॒तिमाष्यायणाच्च कौण्डिन्यायना॒च्च,
रै॒भ्यस्
पौ॒तिमाष्यायणाद्
च
कौण्डिन्यायना॒द्
च
Sentence: n
कौ॒ण्डिन्यायनः कौण्डिन्या॒भ्यां,
कौ॒ण्डिन्यायनस्
कौण्डिन्या॒भ्याम्
Sentence: o
कौ॒ण्डिन्या अौर्णवाभे॒भ्यः,
कौ॒ण्डिन्यास्
अौर्णवाभे॒भ्यस्
Sentence: p
अौर्णवाभाः कौण्डिन्या॒त्,
अौर्णवाभास्
कौण्डिन्या॒द्
Sentence: q
कौ॒ण्डिन्यः कौण्डिन्या॒च्चाग्निवेश्या॒च्च,
कौ॒ण्डिन्यस्
कौण्डिन्या॒द्च
आग्निवेश्या॒द्
च
Verse: M27
[pro
M
5,26-28,
scribit
K
6;
vide
infra]
Sentence: a
आग्निवेश्यः सौ॒तवात्,
आग्निवेश्य॒स्
सौ॒तवाद्
Sentence: b
सौ॒तवः पा॒राशर्यात्,
सौ॒तवस्
पा॒राशर्याद्
Sentence: c
पा॒राशर्यो जा॒तुकर्ण्याज्,
पा॒राशर्यस्
जा॒तुकर्ण्याद्
Sentence: d
जा॒तुकर्ण्यो भा॒रद्वाजाद्,
जा॒तुकर्ण्यस्
भा॒रद्वाजाद्
Sentence: e
भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्च गौतमा॒च्च,
भा॒रद्वाजस्
भारद्वाजा॒द्
च
आसुरायणा॒द्
च
गौतमा॒द्
च
Sentence: f
गौ॒तमो भा॒रद्वाजाद्,
गौ॒तमस्
भा॒रद्वाजाद्
Sentence: g
भा॒रद्वाजो वलाकाकौशिता॒द्,
भा॒रद्वाजस्
वलाकाकौशिता॒द्
Sentence: h
वलाकाकौशितः काषायणा॒त्,
वलाकाकौशित॒स्
काषायणा॒द्
Sentence: i
काषायणः सौ॒करायना॒त्,
काषायण॒स्
सौ॒करायना॒द्
Sentence: j
सौ॒करायन॒स् त्रै॒वणेस्,
सौ॒करायन॒स्
त्रै॒वणेस्
Sentence: k
त्रै॒वणिर् अौ॒पजन्धनेर्,
त्रै॒वणिस्
अौ॒पजन्धनेस्
Sentence: l
अौ॒पजन्धनिर् सायकायना॒त्,
अौ॒पजन्धनिस्
सायकायना॒द्
Sentence: m
सायकायनः कौशिकायनेः,
सायकायन॒स्
कौशिकायने॒स्
Sentence: n
कौशिकायनि॒र् घृतकौशिका॒द्,
कौशिकायनि॒स्
घृतकौशिका॒द्
Sentence: o
घृतकौशिकः पा॒राशर्यात्,
घृतकौशिकस्
पा॒राशर्याद्
Sentence: p
पा॒राशर्यः पा॒राशर्यात्,
पा॒राशर्यस्
पा॒राशर्याद्
Sentence: q
पा॒राशर्यः जा॒तुकर्ण्याज्,
पा॒राशर्यस्
जा॒तुकर्ण्याद्
Sentence: r
जा॒तुकर्ण्यो भा॒रद्वाजाद्,
जा॒तुकर्ण्यस्
भा॒रद्वाजाद्
Sentence: s
भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्यस्का॒च्च,
भा॒रद्वाजस्
भारद्वाजा॒द्
च
आसुरायणा॒द्
यस्का॒द्
च
Sentence: t
आसुरायण॒स् त्रै॒वणेस्,
आसुरायण॒स्
त्रै॒वणेस्
Sentence: u
त्रै॒वणिर् अौ॒पजन्धने॒र्,
त्रै॒वणिस्
अौ॒पजन्धने॒स्
Sentence: v
अौ॒पजन्धनि॒र् आ॒सुरेर्,
अौ॒पजन्धनि॒स्
आ॒सुरेस्
Sentence: w
आ॒सुरिर् भा॒रद्वाजाद्,
आ॒सुरिस्
भा॒रद्वाजाद्
Sentence: x
भा॒रद्वाजो आत्रेया॒त्,
भा॒रद्वाजस्
आत्रेया॒द्
Verse: M28
[pro
M
5,26-28
scribit
K
6;
vide
infra]
Sentence: a
आत्रेयो मा॒ण्टेः,
आत्रेय॒स्
मा॒ण्टेस्
Sentence: b
मा॒ण्टिर् गौ॒तमाद्,
मा॒ण्टिस्
गौ॒तमाद्
Sentence: c
गौ॒तमो गौ॒तमाद्,
गौ॒तमस्
गौ॒तमाद्
Sentence: d
गौ॒तमो वा॒त्स्याद्,
गौ॒तमस्
वा॒त्स्याद्
Sentence: e
वा॒त्स्यः शा॒ण्डिल्याच्,
वा॒त्स्यस्
शा॒ण्डिल्याद्
Sentence: f
छा॒ण्डिल्यः कै॒शोर्यात्का॒प्यात्,
शा॒ण्डिल्यस्
कै॒शोर्याद्
का॒प्याद्
Sentence: g
कै॒शोर्यः का॒प्यः कुमारहरिता॒त्,
कै॒शोर्यस्
का॒प्यस्
कुमारहरिता॒द्
Sentence: h
कुमारहरितो गालवा॒द्,
कुमारहरित॒स्
गालवा॒द्
Sentence: i
गालवो विदर्भीकौण्डिन्या॒द्,
गालव॒स्
विदर्भीकौण्डिन्या॒द्
Sentence: j
विदर्भीकौण्डिन्यो वत्स॒नपातो बा॒भवाद्,
विदर्भीकौण्डिन्य॒स्
वत्स॒नपातस्
बा॒भवाद्
Sentence: k
वत्स॒नपाद्बा॒भवः पथः सौ॒भरात्,
वत्स॒नपाद्
बा॒भवस्
पथ॒स्
सौ॒भराद्
Sentence: l
प॒न्थाः सौ॒भरो ऽया॒स्यादङ्गिरसा॒द्,
प॒न्थास्
सौ॒भरस्
आया॒स्याद्
अङ्गिरसा॒द्
Sentence: m
अया॒स्यो ऽङ्गिरस आ॒भुतेस्त्वा॒ष्ट्राद्,
अया॒स्यस्
अङ्गिरस॒स्
आ॒भुतेस्
त्वा॒ष्ट्राद्
Sentence: n
आ॒भुतिः त्वा॒ष्ट्रो विश्व॒रूपात्त्वा॒ष्ट्राद्,
आ॒भुतिस्
त्वा॒ष्ट्रस्
विश्व॒रूपाद्
त्वा॒ष्ट्राद्
Sentence: o
विश्व॒रूपस्त्वा॒ष्ट्रो ऽश्वि॒भ्यां,
विश्व॒रूपस्
त्वा॒ष्ट्रस्
अश्वि॒भ्याम्
Sentence: p
अश्वि॒नौ दधि॒च आथर्वणा॒द्,
अश्वि॒नौ
दधि॒चस्
आथर्वना॒द्
Sentence: q
दध्य॒ङ्ङाथर्वणो ऽथर्वणो दै॒वाद्,
दध्य॒ङ्
आथर्वन॒स्
आथर्वन॒स्
दै॒वाद्
Sentence: r
अथर्वा दै॒वोः मृत्योः॒ प्राध्वँ॒सनान्,
अथर्वा
दै॒वोस्
मृत्यो॒स्
प्राध्वँ॒सनाद्
Sentence: s
मृत्युः॒ प्राध्वँ॒सनः प्राध्वँ॒सनान्,
मृत्यु॒स्
प्राध्वँ॒सनस्
प्राध्वँ॒सनान्
Sentence: t
प्राध्वँ॒सनः एकर्षे॒र्,
प्राध्वँ॒सनस्
एकर्षे॒स्
Sentence: u
एकर्षि॒र् विप्र॒जित्तेर्,
एकर्षि॒स्
विप्र॒जित्तेस्
Sentence: v
विप्र॒जित्तिर् व्यष्टेर्,
विप्र॒जित्तिस्
व्यष्टेस्
Sentence: w
व्यष्टिः सना॒रोः,
व्यष्टिस्
सना॒रोस्
Sentence: x
सना॒रुः सनात॒नात्,
सना॒रुस्
सनात॒नाद्
Sentence: y
सनात॒नः स॒नगात्,
सनात॒नस्
स॒नगाद्
Sentence: z
स॒नगः परमेष्टि॒णः,
स॒नगस्
परमेष्टि॒णस्
Sentence: aa
परमेष्टी ब्र॒ह्मणो.
परमेष्टी
ब्र॒ह्मणस्
Sentence: ab
ब्र॒ह्म स्वय॒म्भू ब्र॒ह्म न॒मः.
ब्र॒ह्म
स्वय॒म्भू
ब्र॒ह्म
न॒मस्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.