TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 23
Paragraph: 2
{=
ŚBM
14.6.11??} {=
ŚBK
16.6.2??}
Verse: MK1
Sentence: a
अ॒थ
ह जनको
K
जनको ह
वै॒देहः कूर्चा॒दुपावस॒र्पन्नुवाच:
अ॒थ
ह
जनक॒स्
K
जनकस्
ह
वै॒देहस्
कूर्चा॒द्
उपावस॒र्पन्
उवाच
Sentence: b
न॒मस्ते
K
add
.
ऽस्तु,
न॒मस्
ते
K
add
.
अस्तु
Sentence: c
याज्ञवल्क्या॒नु मा शाधी॒ति.
याज्ञवल्क्य
अ॒नु
मा
शाधि
इ॒ति
Sentence: d
स॒ होवाच:
स
ह
उवाच
Sentence: e
य॒था वै,
य॒था
वै
Sentence: f
सम्राड्,
सम्राट्
Sentence: g
महा॒न्तम॒ध्वानमेष्यन्र॒थं वा ना॒वं वा समाद॒दीतैव॒मे॒वैता॒भिरुपनिष॒द्भिः समा॒हितात्मास्य्,
महा॒न्तम्
अ॒ध्वानम्
एष्य॒न्
र॒थम्
वा
ना॒वम्
वा
समाद॒दीत
एव॒म्
एव
एता॒भिस्
उपनिष॒द्भिस्
समा॒हितात्मा
असि
Sentence: h
एवं वृ॒न्दारक आढ्यः स॒न्नधीतवे॒द उक्तो॒पनिषत्क इतो॒ विमुच्य॒मानः॒ क्व गमिष्यसी॒ति.
एव॒म्
वृ॒न्दारकस्
आढ्य॒स्
स॒न्
अधीतवे॒दस्
उक्तो॒पनिषत्कस्
इत॒स्
विमुच्य॒मानस्
क्व
गमिष्यसि
इ॒ति
Sentence: i
नाहं त॒द्,
न
अह॒म्
त॒द्
Sentence: j
भगवन्,
भगवन्
Sentence: k
वे॒द य॒त्र गमिष्यामी॒त्य्.
वे॒द
य॒त्र
गमिष्यामि
इ॒ति
Sentence: l
अ॒थ वै॒ ते ऽहं त॒द्वक्ष्यामि य॒त्र गमिष्यसी॒ति.
अ॒थ
वै
ते
अह॒म्
त॒द्
वक्ष्यामि
य॒त्र
गमिष्यसि
इ॒ति
Sentence: m
ब्र॒वीतु भ॒गवानि॒ति.
ब्र॒वीतु
भ॒गवान्
इ॒ति
Verse: MK2
Sentence: a
स॒ होवाच
K
om.
]:
स
ह
उवाच
K
om.
]
Sentence: b
इ॒न्धो ह वै ना॒मैष॒ यो ऽयं॒ दक्षि॒णे ऽक्षन्पु॒रुषस्;
इ॒न्धस्
ह
वै
ना॒म
एष
य॒स्
अय॒म्
दक्षिणे
अक्ष॒न्
पु॒रुषस्
Sentence: c
तं वा॒ एतमि॒न्धँ स॒न्तमि॒न्द्र इत्या॒चक्षते परो॒क्षेणैव;
त॒म्
वै
एत॒म्
इ॒न्धम्
स॒न्तम्
इ॒न्द्रस्
इ॒त्य्
आ॒चक्षते
परो॒क्षेण
एव
Sentence: d
परो॒क्षप्रिया इव हि॒ देवाः॒ प्रत्य॒क्षद्विषः.
परो॒क्षप्रियास्
इव
हि
देवा॒स्
प्रत्य॒क्षद्विषस्
Verse: MK3
Sentence: a
अ॒थैतद्वा॒मे
ऽक्षि॒णि
K
ऽक्षन्
पु॒रुषरूपम्,
अ॒थ
एत॒द्
वा॒मे
अक्षि॒णि
K
अक्षन्
पु॒रुषरूपम्
Sentence: b
ए॒षास्य प॒त्नी विरा॒ट्,
एषा
अस्य
प॒त्नी
विरा॒ट्
Sentence: c
त॒योरेष॒ सँस्तावो य॒ ए॒षो ऽन्तर्हृ॒दय आकाशो.
त॒योस्
एष
सँस्ताव॒स्
य॒स्
एष॒स्
अन्त॒र्
हृ॒दये
आकाश॒स्
Sentence: d
ऽथैनयोरेतद॒न्नं य॒ ए॒षो ऽन्तर्हृ॒दये लोहित॒पिण्डो.
अ॒थ
एनयोस्
एत॒द्
अ॒न्नम्
य॒स्
एष॒स्
अन्त॒र्
हृ॒दये
लोहित॒पिण्डस्
Sentence: e
ऽथैनयोरेत॒त्प्रावर॒णं य॒देत॒दन्तर्हृ॒दये जालक॒मिवा॒थैनयोरेषा सृ॒तिः
स॒ती
K
om.
]
संच॒रणी
यैषा
हृ॒दयाद्
ऊर्ध्वा
नाड्य्
उच्च॒रति.
अ॒थ
एनयोस्
एत॒द्
प्रावर॒णम्
य॒द्
एत॒द्
अन्त॒र्
हृ॒दये
जालक॒म्
इव
अ॒थ
एनयोस्
एषा
सृ॒तिस्
स॒ती
K
om.
]
संच॒रणी
या
एषा
हृ॒दयाद्
ऊर्ध्वा
नाडी
उच्च॒रति
Verse: M4/K3
Sentence: a
ता वा॒ अस्यैता॒ हिता ना॒म ना॒ड्यो
य॒थ के॒शः सहस्रधा॒ भिन्न
K
यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्यो ऽन्तर्हृदये प्रतिष्ठिता भवन्त्य्;
ता॒स्
वै
अस्य
एता॒स्
हिता॒स्
ना॒म
ना॒ड्यस्
य॒थ
के॒शस्
सहस्रधा
भिन्न॒स्
K
यथा
केशस्
सहस्रधा
भिन्नस्
एवम्
अस्य
एतास्
हितास्
नाम
नाड्यस्
अन्तर्
हृदये
प्रतिष्ठितास्
भवन्ति
Sentence: b
एता॒भिर्वा
एत॒म्
K
एतद्
आस्र॒वदा॒स्रवति;
एता॒भिस्
वै
एत॒म्
K
एतद्
आस्र॒वत्
आ॒स्रवति
Sentence: c
त॒स्मादेष॒ प्रवि॒विक्ताहारतर इव भवत्यस्मा॒च्छारीरा॒दात्म॒नः.
त॒स्माद्
एष
प्रवि॒विक्ताहारतरस्
इव
भवति
अस्मा॒द्
शारीरा॒द्
आत्म॒नस्
Verse: M5/K4
Sentence: a
त॒स्य
वा॒ एत॒स्य पु॒रुषस्य
K
om
.
वा...
प्रा॒ची दिक्प्रा॒ञ्चः प्राणा,
त॒स्य
वै
एत॒स्य
पु॒रुषस्य
K
om
.
वै
...
प्रा॒ची
दि॒क्
प्रा॒ञ्चस्
प्राणा॒स्
Sentence: b
द॒क्षिणा दिग्द॒क्षिणाः प्राणाः,
द॒क्षिणा
दि॒क्
द॒क्षिणास्
प्राणा॒स्
Sentence: c
प्रती॒ची दि॒क्प्रत्य॒ञ्चः प्राणा,
प्रती॒ची
दि॒क्
प्रत्य॒ञ्चस्
प्राणा॒स्
Sentence: d
उ॒दीची दिगु॒दञ्चः प्राणा,
उ॒दीची
दि॒क्
उ॒दञ्चस्
प्राणा॒स्
Sentence: e
ऊर्ध्वा दि॒गूर्ध्वाः॒ प्राणा,
ऊर्ध्वा
दि॒क्
ऊर्ध्वा॒स्
प्राणा॒स्
Sentence: f
अ॒वाची दिग॒वाञ्चः प्राणाः,
अ॒वाची
दि॒क्
अ॒वाञ्चस्
प्राणा॒स्
Sentence: g
स॒र्वा दि॒शः स॒र्वे प्राणाः.
स॒र्वास्
दि॒शस्
स॒र्वे
प्राणा॒स्
Verse: M6/K4
Sentence: a
स॒ एष ने॒ति ने॒त्यात्मा॒गृह्यो न हि॒ गृह्यते॒ ऽशीर्यो न हि॒ शीर्यते
ऽसङ्गो॒ ऽसितो न॒ सज्य॒ते न व्य॒थते
K
ऽसङ्गो न हि सज्यते असितो न व्यथते न रिष्यत्य्.
स॒स्
एष
न
इ॒ति
न
इ॒ति
आत्मा
अ॒गृह्यस्
न
हि
गृह्य॒ते
अ॒शीर्यस्
न
हि
शीर्य॒ते
अ॒सङ्गस्
अ॒सितस्
न
सज्य॒ते
न
व्य॒थते
K
असङ्गस्
न
हि
सज्यते
असितस्
न
व्यथते
न
रिष्यति
Sentence: b
ऽभयं वै,
अ॒भयम्
वै
Sentence: c
जनक,
जनक
Sentence: d
प्रा॒प्तो ऽसी॒ति होवाच या॒ज्ञवल्क्यः.
प्राप्त॒स्
असि
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: e
स॒ होवाच जनको वै॒देहो:
स
ह
उवाच
जनक॒स्
वै॒देहस्
Sentence: f
न॒मस्ते,
न॒मस्
ते
Sentence: g
याज्ञवल्क्या॒भयं त्वा॒गच्छताद्यो॒ नो,
याज्ञवल्क्य
अ॒भयम्
त्वा
आ॒गच्छतात्
य॒स्
नस्
Sentence: h
भगवन्,
भगवन्
Sentence: i
अ॒भयं वेद॒यस
अ॒भयम्
वेद॒यसे
[
K
add
.:]
Sentence: j
स होवाच जनको वैदेहो ऽभयं त्वागच्छताद्,
स
ह
उवाच
जनकस्
वैदेहस्
अभयम्
त्वा
आगच्छतात्
Sentence: k
याज्ञवल्क्य,
याज्ञवल्क्य
Sentence: l
यो नो,
यस्
नस्
Sentence: m
भगवन्,
भगवन्
Sentence: n
अभयं वेदयसे;
अभयम्
वेदयसे
Sentence: o
नमस्ते ऽस्त्व्;
नमस्
ते
अस्तु
Sentence: p
इमे॒ विदेहा॒ अय॒मह॒मस्मी॒ति.
इमे
विदेहा॒स्
अय॒म्
अह॒म्
अस्मि
इ॒ति
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.