TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 3
Paragraph: 3
{=
ŚBM
14.4.1.1-33} {=
ŚBK
16.3.3.1-23}
Verse: MK1
Sentence: a
द्वया॒ ह प्राजापत्या,
द्वया॒स्
ह
प्राजापत्या॒स्
Sentence: b
देवाश्चा॒सुराश्च.
देवा॒स्
च
अ॒सुरास्
च
Sentence: c
त॒तः कानीयसा॒ एव॒ देवा,
त॒तस्
कानीयसा॒स्
एव
देवा॒स्
Sentence: d
ज्यायसा अ॒सुरास्.
ज्यायसा॒स्
अ॒सुरास्
Sentence: e
त॒ एषु॒ लोके॒ष्वस्पर्धन्त.
ते
एषु
लोके॒षु
अस्पर्धन्त
Verse: MK2
Sentence: a
ते॒ ह देवा॒ ऊचुर्:
ते
ह
देवा॒स्
ऊचुर्
Sentence: b
हन्ता॒सुरान्यज्ञ॒ उद्गीथे॒नात्य॒यामे॒ति.
ह॒न्त
अ॒सुरान्
यज्ञे
उद्गीथे॒न
अत्य॒याम
इ॒ति
Verse: M3/K2
Sentence: a
ते॒ ह वा॒चमूचुस्:
ते
ह
वा॒चम्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्यो वागु॒दगायद्.
ते॒भ्यस्
वा॒क्
उ॒दगायत्
Sentence: e
यो॒ वाचि भो॒गस्तं॒ देवे॒भ्य आ॒गायद्,
य॒स्
वाचि
भो॒गस्
त॒म्
देवे॒भ्यस्
आ॒गायत्
Sentence: f
य॒त्कल्या॒णं व॒दति त॒दात्म॒ने.
य॒द्
कल्या॒णम्
व॒दति
त॒द्
आत्म॒ने
Sentence: g
ते ऽविदुर्:
ते
अविदुर्
Sentence: h
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: i
त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविध्यन्
Sentence: j
स यः स॒ पाप्मा य॒दे॒वेदम॒प्रतिरूपं व॒दति,
स
य॒स्
स
पाप्मा
य॒द्
एव
इद॒म्
अ॒प्रतिरूपम्
व॒दति
Sentence: k
स॒ एव स॒ पाप्मा.
स॒स्
एव
स
पाप्मा
Verse: M4/K3
Sentence: a
अ॒थ ह प्राण॒मूचुस्:
अ॒थ
ह
प्राण॒म्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्यः प्राण उ॒दगायद्.
ते॒भ्यस्
प्राण॒स्
उ॒दगायत्
Sentence: e
यः॒ प्राणे भो॒गस्तं॒ देवे॒भ्य आ॒गायद्,
य॒स्
प्राणे
भो॒गस्
त॒म्
देवे॒भ्यस्
आ॒गायत्
Sentence: f
य॒त्कल्या॒णं जि॒घ्रति त॒दात्म॒ने.
य॒द्
कल्या॒णम्
जि॒घ्रति
त॒द्
आत्म॒ने
Sentence: g
ते ऽविदुर्:
ते
अविदुर्
Sentence: h
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: i
त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविध्यन्
Sentence: j
स यः स॒ पाप्मा य॒दे॒वेदम॒प्रतिरूपं जि॒घ्रति,
स
य॒स्
स
पाप्मा
य॒द्
एव
इद॒म्
अ॒प्रतिरूपम्
जि॒घ्रति
Sentence: k
स॒ एव स॒ पाप्मा.
स॒स्
एव
स
पाप्मा
Verse: M5/K4
Sentence: a
अ॒थ ह च॒क्षुरूचुस्:
अ॒थ
ह
च॒क्षुस्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्यश्च॒क्षुरु॒दगायद्.
ते॒भ्यस्
च॒क्षुस्
उ॒दगायत्
Sentence: e
यश्च॒क्षुषि भो॒गस्तं॒ देवे॒भ्य आ॒गायद्,
य॒स्
च॒क्षुषि
भो॒गस्
त॒म्
देवे॒भ्यस्
आ॒गायत्
Sentence: f
य॒त्कल्या॒णं प॒श्यति त॒दात्म॒ने.
य॒द्
कल्या॒णम्
प॒श्यति
त॒द्
आत्म॒ने
Sentence: g
ते ऽविदुर्:
ते
अविदुर्
Sentence: h
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: i
त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविध्यन्
Sentence: j
स यः स॒ पाप्मा य॒दे॒वेदम॒प्रतिरूपं प॒श्यति,
स
य॒स्
स
पाप्मा
य॒द्
एव
इद॒म्
अ॒प्रतिरूपम्
प॒श्यति
Sentence: k
स॒ एव स॒ पाप्मा.
स॒स्
एव
स
पाप्मा
Verse: M6/K5
Sentence: a
अ॒थ ह श्रो॒त्रमूचुस्:
अ॒थ
ह
श्रो॒त्रम्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्यः श्रो॒त्रमु॒दगायद्.
ते॒भ्यस्
श्रो॒त्रम्
उ॒दगायत्
Sentence: e
यः श्रो॒त्रे भो॒गस्तं॒ देवे॒भ्य आ॒गायद्,
य॒स्
श्रो॒त्रे
भो॒गस्
त॒म्
देवे॒भ्यस्
आ॒गायत्
Sentence: f
य॒त्कल्या॒णँ शृणो॒ति त॒दात्म॒ने.
य॒द्
कल्या॒णम्
शृणो॒ति
त॒द्
आत्म॒ने
Sentence: g
ते ऽविदुर्:
ते
अविदुर्
Sentence: h
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: i
त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविध्यन्
Sentence: j
स यः स॒ पाप्मा य॒दे॒वेदम॒प्रतिरूपँ शृणो॒ति,
स
य॒स्
स
पाप्मा
य॒द्
एव
इद॒म्
अ॒प्रतिरूपम्
शृणो॒ति
Sentence: k
स॒ एव स॒ पाप्मा.
स
एव
स
पाप्मा
Verse: M7/K5
Sentence: a
अ॒थ ह म॒न ऊचुस्:
अ॒थ
ह
म॒नस्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्यो म॒न उ॒दगायद्.
ते॒भ्यस्
म॒नस्
उ॒दगायत्
Sentence: e
यो म॒नसि भो॒गस्तं॒ देवे॒भ्य आ॒गायद्,
य॒स्
म॒नसि
भो॒गस्
त॒म्
देवे॒भ्यस्
आ॒गायत्
Sentence: f
य॒त्कल्या॒णँ सङ्कल्प॒यति त॒दात्म॒ने.
य॒द्
कल्या॒णम्
सङ्कल्प॒यति
त॒द्
आत्म॒ने
Sentence: g
ते ऽविदुर्:
ते
अविदुर्
Sentence: h
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: i
त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविध्यन्
Sentence: j
स यः स॒ पाप्मा य॒दे॒वेदम॒प्रतिरूपँ सङ्कल्प॒यति,
स
य॒स्
स
पाप्मा
य॒द्
एव
इद॒म्
अ॒प्रतिरूपम्
सङ्कल्प॒यति
Sentence: k
स॒ एव स॒ पा॒प्मैव॒मु ख॒ल्वेता॒ देव॒ताः पाप्म॒भिरु॒पासृजन्न्,
स॒स्
एव
स
पाप्मा
एव॒म्
उ
ख॒लु
एता॒स्
देव॒तास्
पाप्म॒भिस्
उ॒पासृजन्
Sentence: l
एव॒मेनाः पाप्म॒नाविध्यन्.
एव॒म्
एनास्
पाप्म॒ना
अविध्यन्
Verse: M8/K7
Sentence: a
अ॒थ हेम॒मास॒न्यं प्राण॒मूचुस्:
अ॒थ
ह
इम॒म्
आस॒न्यम्
प्राण॒म्
ऊचुर्
Sentence: b
त्वं॒ न उ॒द्गाये॒ति.
त्व॒म्
नस्
उ॒द्गाय
इ॒ति
Sentence: c
तथे॒ति.
त॒था
इ॒ति
Sentence: d
ते॒भ्य एष॒ प्राण उ॒दगायत्.
ते॒भ्यस्
एष
प्राण॒स्
उ॒दगायत्
Sentence: e
ते ऽविदुर्:
ते
अविदुर्
Sentence: f
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति.
अने॒न
वै
नस्
उद्गात्रा
अ॒त्येष्यन्ति
इ॒ति
Sentence: g
त॒मभिद्रु॒त्य पाप्म॒नाविव्यत्सन्त्.
त॒म्
अभिद्रु॒त्य
पाप्म॒ना
अविव्यत्सन्
Sentence: h
स यथा॒श्मानमृत्वा॒ लोष्टो॒ विध्वँ॒सेतैवँ॒ हैव॒ विध्वँ॒समाना वि॒ष्वञ्चो वि॒नेशुस्.
स
य॒था
अ॒श्मानम्
ऋत्वा
लोष्ट॒स्
विध्वँ॒सेत
एव॒म्
ह
एव
विध्वँ॒समानास्
वि॒ष्वञ्चस्
वि॒नेशुर्
Sentence: i
त॒तो देवा अ॒भवन्,
त॒तस्
देवा॒स्
अ॒भवन्
Sentence: j
परा॒सुरा.
प॒र
अ॒सुरास्
Sentence: k
भ॒वत्यात्म॒ना,
भ॒वति
आत्म॒ना
Sentence: l
प॒रास्य द्विषन्भ्रा॒तृव्यो भवति,
प॒र
अस्य
द्विष॒न्
भ्रा॒तृव्यस्
भवति
Sentence: m
य॒ एवं वे॒द.
य
एव॒म्
वे॒द
Verse: M9/K8
Sentence: a
ते॒ होचुः:
ते
ह
ऊचुर्
Sentence: b
क्व नु॒ सो ऽभूद्,
क्व
नु
स॒स्
अभूत्
Sentence: c
यो॒ न इत्थम॒सक्ते॒त्य्.
य॒स्
नस्
इत्थ॒म्
अ॒सक्त
इ॒ति
Sentence: d
अय॒मा॒स्ये ऽन्तरि॒ति,
अय॒म्
आ॒स्ये
अन्त॒र्
इ॒ति
Sentence: e
सो ऽया॒स्य;
स॒स्
अया॒स्यस्
Sentence: f
आङ्गिरसो,
आङ्गिरस॒स्
Sentence: g
ऽङ्गानाँ हि र॒सः.
अ॒ङ्गानाम्
हि
र॒सस्
Verse: M10/K9
Sentence: a
सा वा॒ एषा॒ देव॒ता दूर्ना॒म,
सा
वै
एषा
देव॒ता
दू॒र्
ना॒म
Sentence: b
दूरँ॒ ह्यस्या मृत्यु॒र्.
दूर॒म्
हि
अस्यास्
मृत्यु॒स्
Sentence: c
दूरँ॒ ह वा॒ अस्मा॒न्मृत्यु॒र्भवति,
दूर॒म्
ह
वै
अस्मा॒द्
मृत्यु॒स्
भवति
Sentence: d
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M11/K10
Sentence: a
सा वा॒ एषा॒ देव॒तैता॒सां देव॒तानां पाप्मा॒नं मृत्यु॒मपह॒त्य,
सा
वै
एषा
देव॒ता
एता॒साम्
देव॒तानाम्
पाप्मा॒नम्
मृत्यु॒म्
अपह॒त्य
Sentence: b
य॒त्रासां॒ दिशाम॒न्तस्,
य॒त्र
आसा॒म्
दिशा॒म्
अ॒न्तस्
Sentence: c
त॒द्गमयां॒ चकार,
त॒द्
गमया॒म्
चकार
Sentence: d
त॒दासां पाप्म॒नो वि॒न्यदधात्.
त॒द्
आसाम्
पाप्म॒नस्
वि॒न्यदधात्
Sentence: e
त॒स्मान्न ज॒नमियान्,
त॒स्माद्
न
ज॒नम्
इयात्
Sentence: f
ना॒न्तमियान्,
न
अ॒न्तम्
इयात्
Sentence: g
ने॒त्पाप्मा॒नं मृत्यु॒मन्ववा॒यानी॒ति.
ने॒द्
पाप्मा॒नम्
मृत्यु॒म्
अन्ववा॒यानि
इ॒ति
Verse: M12/K11
Sentence: a
सा वा॒ एषा॒ देव॒तैता॒सां देव॒तानां पाप्मा॒नं मृत्यु॒मपहत्या॒थैना मृत्युम॒त्यवहत्.
सा
वै
एषा
देव॒ता
एता॒साम्
देव॒तानाम्
पाप्मा॒नम्
मृत्यु॒म्
अपह॒त्य
अ॒थ
एनास्
मृत्यु॒म्
अ॒त्यवहत्
Verse: M13/K12
Sentence: a
सा वै वा॒चमेव॒ प्रथमाम॒त्यवहत्.
सा
वै
वा॒चम्
एव
प्रथमा॒म्
अ॒त्यवहत्
Sentence: b
सा॒ यदा॒ मृत्यु॒मत्य॒मुच्यत,
सा
यदा
मृत्यु॒म्
अत्य॒मुच्यत
Sentence: c
सो ऽग्नि॒रभवत्;
स॒स्
अग्नि॒स्
अभवत्
Sentence: d
सो ऽय॒मग्निः प॒रेण मृत्युम॒तिक्रान्तो दीप्यते.
स॒स्
अय॒म्
अग्नि॒स्
प॒रेण
मृत्यु॒म्
अ॒तिक्रान्तस्
दीप्यते
Verse: M14/K13
Sentence: a
अ॒थ प्राणम॒त्यवहत्.
अ॒थ
प्राण॒म्
अ॒त्यवहत्
Sentence: b
स॒ यदा॒ मृत्यु॒मत्य॒मुच्यत,
स
यदा
मृत्यु॒म्
अत्य॒मुच्यत
Sentence: c
स॒ वायु॒रभवत्;
स
वायु॒स्
अभवत्
Sentence: d
सो ऽयं॒ वायुः प॒रेण मृत्युम॒तिक्रान्तः पवते.
स॒स्
अय॒म्
वायु॒स्
प॒रेण
मृत्यु॒म्
अ॒तिक्रान्तस्
पवते
Verse: M15/K14
Sentence: a
अ॒थ च॒क्षुर॒त्यवहत्.
अ॒थ
च॒क्षुस्
अ॒त्यवहत्
Sentence: b
त॒द्यदा॒ मृत्यु॒मत्य॒मुच्यत,
त॒द्
यदा
मृत्यु॒म्
अत्य॒मुच्यत
Sentence: c
स॒ आदि॒त्यो ऽभवत्;
स
आदित्य॒स्
अभवत्
Sentence: d
सो ऽसा॒वादित्यः प॒रेण मृत्युम॒तिक्रान्तस्तपति.
स॒स्
असौ
आदित्य॒स्
प॒रेण
मृत्यु॒म्
अ॒तिक्रान्तस्
तपति
Verse: M16/K15
Sentence: a
अ॒थ श्रो॒त्रम॒त्यवहत्.
अ॒थ
श्रो॒त्रम्
अ॒त्यवहत्
Sentence: b
त॒द्यदा॒ मृत्यु॒मत्य॒मुच्यत,
त॒द्
यदा
मृत्यु॒म्
अत्य॒मुच्यत
Sentence: c
ता दि॒शो ऽभवन्;
ता॒स्
दि॒शस्
अभवन्
Sentence: d
ता॒ इमा दि॒शः प॒रेण मृत्युम॒तिक्रान्ताः.
ता॒स्
इमा॒स्
दि॒शस्
प॒रेण
मृत्यु॒म्
अ॒तिक्रान्तास्
Verse: M17/K16
Sentence: a
अ॒थ मनो॒ ऽत्यवहत्.
अ॒थ
म॒नस्
अ॒त्यवहत्
Sentence: b
त॒द्यदा॒ मृत्युम॒त्यमुच्यत,
त॒द्
यदा
मृत्यु॒म्
अ॒त्यमुच्यत
Sentence: c
स॒ चन्द्र॒मा अभवत्;
स
चन्द्र॒मास्
अभवत्
Sentence: d
सो ऽसौ॒ चन्द्रः प॒रेण मृत्युम॒तिक्रान्तो भात्य्.
स॒स्
असौ
चन्द्र॒स्
प॒रेण
मृत्यु॒म्
अ॒तिक्रान्तस्
भाति
Sentence: e
एवँ॒ ह वा॒ एनमेषा॒ देव॒ता मृत्युम॒तिवहति,
एव॒म्
ह
वै
एनम्
एषा
देव॒ता
मृत्यु॒म्
अ॒तिवहति
Sentence: f
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M18/K17
Sentence: a
अ॒थात्म॒ने ऽन्ना॒द्यमा॒गायद्.
अ॒थ
आत्म॒ने
अन्ना॒द्यम्
आ॒गायत्
Sentence: b
यद्धि किञ्चा॒न्नमद्य॒ते,
य॒द्
हि
कि॒ञ्च
अ॒न्नम्
अद्य॒ते
Sentence: c
ऽने॒नैव त॒दद्य॒त;
अने॒न
एव
त॒द्
अद्य॒ते
Sentence: d
इह प्र॒तितिष्ठति.
इह
प्र॒तितिष्ठति
Verse: M19/K18
Sentence: a
ते॒ देवा॒ अब्रुवन्न्:
ते
देवा॒स्
अब्रुवन्
Sentence: b
एता॒वद्वा॒ इदँ स॒र्वं यद॒न्नं,
एता॒वत्
वै
इद॒म्
स॒र्वम्
य॒द्
अ॒न्नम्
Sentence: c
त॒दात्म॒न आ॒गासीर्;
त॒द्
आत्म॒ने
आ॒गासीस्
Sentence: d
अ॒नु नो ऽस्मिन्न॒न्न आ॒भजस्वे॒ति.
अ॒नु
नस्
अस्मि॒न्
अ॒न्ने
आ॒भजस्व
इ॒ति
Sentence: e
ते वै॒ माभिसं॒विशते॒ति.
ते
वै
मा
अभिसं॒विशत
इ॒ति
Sentence: f
तथे॒ति.
त॒था
इ॒ति
Sentence: g
तँ॒ समन्तं॒ परि॒ण्यविशन्त.
त॒म्
समन्त॒म्
परि॒ण्यविशन्त
Sentence: h
त॒स्माद्य॒दनेना॒न्नम॒त्ति,
त॒स्माद्
य॒द्
अने॒न
अ॒न्नम्
अ॒त्ति
Sentence: i
ते॒नैता॒स्तृप्यन्त्य्.
ते॒न
एता॒स्
तृप्यन्ति
Sentence: j
एवँ॒ ह वा॒ एनँ स्वा॒ अभिसं॒विशन्ति,
एव॒म्
ह
वै
एनम्
स्वा॒स्
अभिसं॒विशन्ति
Sentence: k
भ॒र्ता स्वा॒नाँ श्रे॒ष्ठः पुरएता॒ भवत्यन्नादो॒ ऽधिपतिर्,
भ॒र्ता
स्वा॒नाम्
श्रे॒ष्ठस्
पुरएता
भवति
अन्नाद॒स्
अ॒धिपतिस्
Sentence: l
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M20/K18
Sentence: a
य॒ उ हैवंवि॒दँ स्वे॒षु प्रतिप्रतिर्बु॒भूषति,
य॒स्
उ
ह
एवंवि॒दम्
स्वे॒षु
प्रतिप्रति॒स्
बु॒भूषति
Sentence: b
न॒ हैवा॒लं भा॒र्येभ्यो भवत्य्;
न
ह
एव
अ॒लम्
भा॒र्येभ्यस्
भवति
Sentence: c
अ॒थ य॒ ए॒वैतम॒नुभवति,
अ॒थ
य॒स्
एव
एत॒म्
अ॒नुभवति
Sentence: d
यो॒ वैतम॒नु भा॒र्यान्बु॒भूर्षति,
य॒स्
वा
एत॒म्
अ॒नु
भा॒र्यान्
बु॒भूर्षति
Sentence: e
स॒ हैवा॒लं भा॒र्येभ्यो भवति.
स
ह
एव
अ॒लम्
भा॒र्येभ्यस्
भवति
Verse: M21/K19
Sentence: a
सो ऽया॒स्य आङ्गिरसो,
स॒स्
अया॒स्यस्
आङ्गिरस॒स्
Sentence: b
ऽङ्गानाँ हि र॒सः.
अ॒ङ्गानाम्
हि
र॒सस्
Sentence: c
प्राणो वा अ॒ङ्गानाँ र॒सः.
प्राण॒स्
वै
अ॒ङ्गानाम्
र॒सस्
Sentence: d
प्राणो हि वा अ॒ङ्गानाँ र॒सस्,
प्राण॒स्
हि
वै
अ॒ङ्गानाम्
र॒सस्
Sentence: e
त॒स्माद्य॒स्मात्क॒स्माच्चा॒ङ्गात्प्राण॒ उत्क्रा॒मति,
त॒स्माद्
य॒स्माद्
क॒स्माच्च
अ॒ङ्गाद्
प्राण॒स्
उत्क्रा॒मति
Sentence: f
त॒देव त॒च्छुष्यत्य्;
त॒द्
एव
त॒द्
शुष्यति
Sentence: g
एष हि वा अ॒ङ्गानाँ र॒सः.
एष
हि
वै
अ॒ङ्गानाम्
र॒सस्
Verse: M22/K20
Sentence: a
एष॒ उ एव बृ॒हस्प॒तिर्:
एष॒स्
उ
एव
बृ॒हस्प॒तिस्
Sentence: b
वाग्वै॒ बृहती,
वा॒क्
वै
बृहती
Sentence: c
त॒स्या एष प॒तिस्,
त॒स्यास्
एष
प॒तिस्
Sentence: d
त॒स्मादु बृ॒हस्प॒तिः.
त॒स्माद्
उ
बृ॒हस्प॒तिस्
Verse: M23/K21
Sentence: a
एष॒ उ एव ब्र॒ह्मणस्प॒तिर्;
एष॒स्
उ
एव
ब्र॒ह्मणस्प॒तिस्
Sentence: b
वाग्वै ब्र॒ह्म,
वा॒क्
वै
ब्र॒ह्म
Sentence: c
त॒स्या एष प॒तिस्,
त॒स्यास्
एष
प॒तिस्
Sentence: d
त॒स्मादु ब्र॒ह्मणस्प॒तिः.
त॒स्माद्
उ
ब्र॒ह्मणस्प॒तिस्
Verse: M24/K22
Sentence: a
एष॒ उ एव सा॒म;
एष॒स्
उ
एव
सा॒म
Sentence: b
वाग्वै सा॒मैष सा चा॒मश्चे॒ति,
वा॒क्
वै
सा॒म
एष
सा
च
अ॒मस्
च
इ॒ति
Sentence: c
तत्सा॒म्नः सामत्वं.
त॒द्
सा॒म्नस्
सामत्व॒म्
Sentence: d
य॒द्वेव॒ समः प्लु॒षिणा,
य॒द्
उ
एव
सम॒स्
प्लु॒षिणा
Sentence: e
समो॒ मश॒केन,
सम॒स्
मश॒केन
Sentence: f
समो॒ नागे॒न,
सम॒स्
नागे॒न
Sentence: g
सम॒ एभि॒स्त्रिभि॒र्लोकैः,
सम॒स्
एभि॒स्
त्रिभि॒स्
लोकै॒स्
Sentence: h
स॒मो ऽने॒न स॒र्वेण,
सम॒स्
अने॒न
स॒र्वेण
Sentence: i
त॒स्माद्वेव सा॒माश्नुते सा॒म्नः सा॒युज्यँ सलोक॒तां,
त॒स्माद्
उ
एव
सा॒म
अश्नुते
सा॒म्नस्
सा॒युज्यम्
सलोक॒ताम्
Sentence: j
य॒ एव॒मेतत्सा॒म वे॒द.
य॒स्
एव॒म्
एत॒द्
सा॒म
वे॒द
Verse: M25/K23
Sentence: a
एष॒ उ वा॒ उद्गीथः.
एष॒स्
उ
वै
उद्गीथ॒स्
Sentence: b
प्राणो वा उ॒त्,
प्राण॒स्
वै
उ॒द्
Sentence: c
प्राणे॒न॒ हीदँ स॒र्वमु॒त्तब्धं.
प्राणे॒न
हि
इद॒म्
स॒र्वम्
उ॒त्तब्धम्
Sentence: d
वा॒गेव गीथो॒च्च गी॒था चे॒ति,
वा॒क्
एव
गी॒था
उ॒द्
च
गी॒था
च
इ॒ति
Sentence: e
स॒ उद्गीथः.
स
उद्गीथ॒स्
Verse: M26/K24
Sentence: a
तद्धा॒पि ब्रह्मदत्त॒श्चैकितानेयो रा॒जानं भक्ष॒यन्नुवाचायं त्य॒स्य रा॒जा मूर्धा॒नं वि॒पातय
त॒द्
ह
अ॒पि
ब्रह्मदत्त॒स्
चैकितानेय॒स्
रा॒जानम्
भक्ष॒यन्
उवाच
अय॒म्
त्य॒स्य
रा॒जा
मूर्धा॒नम्
वि॒पातयतात्
Sentence: b
य॒दि॒तो ऽया॒स्य आङ्गिर॒सो ऽन्ये॒नोद॒गायदि॒ति.
य॒द्
इत॒स्
अया॒स्यस्
आङ्गिरस॒स्
अन्ये॒न
उद॒गायत्
इ॒ति
Sentence: c
वाचा॒ च॒ ह्येव स॒ प्राणे॒न चोद॒गायदि॒ति.
वाचा
च
हि
एव
स
प्राणे॒न
च
उद॒गायत्
इ॒ति
Verse: M27/K25
Sentence: a
त॒स्य हैत॒स्य सा॒म्नो यः स्वं वे॒द,
त॒स्य
ह
एत॒स्य
सा॒म्नस्
य॒स्
स्व॒म्
वे॒द
Sentence: b
भ॒वति हास्य स्वं.
भ॒वति
ह
अस्य
स्व॒म्
Sentence: c
त॒स्य वै स्व॒र एव स्वं.
त॒स्य
वै
स्व॒रस्
एव
स्व॒म्
Sentence: d
त॒स्मादा॒र्त्विज्यं करिष्य॒न्वाचि स्व॒रमिच्छेत,
त॒स्माद्
आ॒र्त्विज्यम्
करिष्य॒न्
वाचि
स्व॒रम्
इच्छेत
Sentence: e
त॒या वाचा स्व॒रसम्पन्नया॒र्त्विज्यं कुर्यात्.
त॒या
वाचा
स्व॒रसम्पन्नया
आ॒र्त्विज्यम्
कुर्यात्
Sentence: f
त॒स्माद्यज्ञे स्व॒रवन्तं दि॒दृक्षन्त एवा॒थो य॒स्य स्वं भ॒वति.
त॒स्माद्
यज्ञे
स्व॒रवन्तम्
दि॒दृक्षन्ते
एव
अ॒थ
उ
य॒स्य
स्व॒म्
भ॒वति
Sentence: g
भ॒वति हास्य स्वं,
भ॒वति
ह
अस्य
स्व॒म्
Sentence: h
य॒ एव॒मेतत्सा॒म्नः स्वं वे॒द.
य॒स्
एव॒म्
एत॒त्
सा॒म्नस्
स्व॒म्
वे॒द
Verse: M28/K26
Sentence: a
त॒स्य हैत॒स्य सा॒म्नो यः॒ सुव॒र्णं वे॒द,
त॒स्य
ह
एत॒स्य
सा॒म्नस्
य॒स्
सुव॒र्णम्
वे॒द
Sentence: b
भ॒वति हास्य सुव॒र्णं.
भ॒वति
ह
अस्य
सुव॒र्णम्
Sentence: c
त॒स्य वै स्व॒र एव॒ सुव॒र्णं.
त॒स्य
वै
स्व॒रस्
एव
सुव॒र्णम्
Sentence: d
भ॒वति हास्य सुव॒र्णं,
भ॒वति
ह
अस्य
सुव॒र्णम्
Sentence: e
य॒ एव॒मेतत्सा॒म्नः सुव॒र्णं वे॒द.
य॒स्
एव॒म्
एत॒द्
सा॒म्नस्
सुव॒र्णम्
वे॒द
Verse: M29/K27
Sentence: a
त॒स्य हैत॒स्य सा॒म्नो यः॒ प्रतिष्ठां वे॒द,
त॒स्य
ह
एत॒स्य
सा॒म्नस्
य॒स्
प्रतिष्ठा॒म्
वे॒द
Sentence: b
प्र॒ति ह तिष्ठति.
प्र॒ति
ह
तिष्ठति
Sentence: c
त॒स्य वै वा॒गेव॒ प्रतिष्ठा,
त॒स्य
वै
वा॒क्
एव
प्रतिष्ठा
Sentence: d
वाचि हि ख॒ल्वेष॒ एत॒त्प्राणः प्र॒तिष्ठितो गीयते,
वाचि
हि
ख॒लु
एष॒स्
एत॒द्
प्राण॒स्
प्र॒तिष्ठितस्
गीय॒ते
Sentence: e
ऽन्न इ॒त्यु है॒क आहुः.
अ॒न्ने
इ॒ति
उ
ह
ए॒के
आहुर्
Verse: M30/K28
Sentence: a
अथा॒तः प॒वमानानामे॒वाभ्यारोहः.
अ॒थ
अ॒तस्
प॒वमानानाम्
एव
अभ्यारोह॒स्
Sentence: b
स वै ख॒लु प्रस्तोता सा॒म प्र॒स्तौति.
स
वै
ख॒लु
प्रस्तोता
सा॒म
प्र॒स्तौति
Sentence: c
स य॒त्र प्रस्तुया॒त्,
स
य॒त्र
प्रस्तुया॒त्
Sentence: d
त॒देता॒नि जपेद्:
त॒द्
एता॒नि
जपेत्
Sentence: e
अ॒सतो मा स॒द्गमय
अ॒सतस्
मा
स॒त्
गमय
Sentence: f
त॒मसो मा ज्यो॒तिर्गमय,
त॒मसस्
मा
ज्यो॒तिस्
गमय
Sentence: g
मृत्यो॒र्मामृ॒तं गमये॒ति.
मृत्यो॒स्
मा
अमृ॒तम्
गमय
इ॒ति
Verse: M31/K28
Sentence: a
स यदाहा॒सतो मा स॒द्गमये॒ति,
स
य॒द्
आ॒ह
अ॒सतस्
मा
स॒त्
गमय
इ॒ति
Sentence: b
मृत्युर्वा अ॒सत्,
मृत्यु॒स्
वै
अ॒सत्
Sentence: c
स॒दमृ॒तं:
स॒त्
अमृ॒तम्
Sentence: d
मृत्यो॒र्मामृ॒तं गमयामृ॒तं मा कुर्वि॒त्ये॒वैत॒दाह.
मृत्यो॒स्
मा
अमृ॒तम्
गमय
अमृ॒तम्
मा
कुरु
इ॒ति
एव
एत॒द्
आह
Verse: M32/K28
Sentence: a
त॒मसो मा ज्यो॒तिर्गमये॒ति,
त॒मसस्
मा
ज्यो॒तिस्
गमय
इ॒ति
Sentence: b
मृत्युर्वै त॒मो,
मृत्यु॒स्
वै
त॒मस्
Sentence: c
ज्यो॒तिरमृ॒तं:
ज्यो॒तिस्
अमृ॒तम्
Sentence: d
मृत्यो॒र्मामृतं गमयामृ॒तं मा कुर्वि॒त्ये॒वैत॒दाह.
मृत्यो॒स्
मा
अमृ॒तम्
गमय
अमृ॒तम्
मा
कुरु
इ॒ति
एव
एत॒द्
आह
Sentence: e
मृत्यो॒र्मामृ॒तं गमये॒ति,
मृत्यो॒स्
मा
अमृ॒तम्
गमय
इ॒ति
Sentence: f
ना॒त्र तिरो॒हितमिवास्ति.
न
अ॒त्र
तिरो॒हितम्
इव
अस्ति
Verse: M33/K28
Sentence: a
अ॒थ यानी॒तराणि स्तोत्रा॒णि,
अ॒थ
या॒नि
इ॒तराणि
स्तोत्रा॒णि
Sentence: b
ते॒ष्वात्म॒ने ऽन्ना॒द्यमा॒गायेत्;
ते॒षु
आत्म॒ने
अन्ना॒द्यम्
आ॒गायेत्
Sentence: c
त॒स्मादु ते॒षु व॒रं वृणीत,
त॒स्माद्
उ
ते॒षु
व॒रम्
वृणीत
Sentence: d
यं का॒मं काम॒येत,
य॒म्
का॒मम्
काम॒येत
Sentence: e
तँ.
त॒म्
Sentence: f
स॒ एष॒ एवंवि॒दुद्गा॒तात्म॒ने वा य॒जमानाय वा यं का॒मं काम॒यते,
स॒स्
एष॒स्
एवंवि॒द्
उद्गाता
आत्म॒ने
वा
य॒जमानाय
वा
य॒म्
का॒मम्
काम॒यते
Sentence: g
तमा॒गायति.
त॒म्
आ॒गायति
Sentence: h
त॒द्धैत॒ल्लोकजि॒देव,
त॒द्
ह
एत॒द्
लोकजि॒त्
एव
Sentence: i
न॒ है॒वालोक्य॒ताया आ॒शास्ति,
न
ह
एव
अलोक्य॒तायास्
आशा
अस्ति
Sentence: j
य॒ एव॒मेतत्सा॒म वे॒द.
य॒स्
एव॒म्
एत॒द्
सा॒म
वे॒द
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.