TITUS
Text collection: YVW
White
Yajur-Veda
Text: BAUp
Br̥had-Āraṇyaka-Upaniṣad
Mādhyandina-Recension
/
Kāṇva-Recension
On
the
basis
of
the
editions
by
Albrecht
Weber
,
The
Çatapatha-Brāhmaṇa
in
the
Mādhyandina-Çākhā
with
extracts
from
the
commentaries
of
Sāyaṇa
,
Harisvāmin
and
Dvivedānga
,
Berlin
1849 /
Repr
.
Varanasi
1964
(Chowkhamba
Sanskrit
Ser
., 96)
and
Willem
Caland
,
The
Śatapatha
Brāhmaṇa
in
the
Kāṇvīya
Recension
,
rev
.
ed
.
by
Raghu
Vira
,
Lahore
1926 /
repr
.
Delhi
1983
edited
by
Marcos
Albino
,
Erlangen
1996-1997;
TITUS
version
by
Jost
Gippert
,
Frankfurt
a/M
, 31.1.1997 / 28.2.1998 / 21.6.1998 / 15.10.1999 / 1.6.2000 / 7.12.2008
[Divergences
between
both
recensions
are
indicated
by
different
colours.
]
Chapter: 1
Paragraph: 1
{=
ŚBM
10.6.4.1} {=
ŚBK
16.3.1.1-2}
Verse: MK1
Sentence: a
उषा वा अ॒श्वस्य मे॒ध्यस्य शि॒रः,
उषा॒स्
वै
अ॒श्वस्य
मे॒ध्यस्य
शि॒रस्
Sentence: b
सू॒र्यश्च॒क्षुर्,
सू॒र्यस्
च॒क्षुस्
Sentence: c
वा॒तः प्राणो,
वा॒तस्
प्राण॒स्
Sentence: d
व्या॒त्तमग्नि॒र्वैश्वानरः,
व्या॒त्तम्
अग्नि॒स्
वैश्वानर॒स्
Sentence: e
संवत्सर॒ आत्मा॒श्वस्य मे॒ध्यस्य द्यौ॒ष्पृष्ठ॒म्,
संवत्सर॒स्
आत्मा
अ॒श्वस्य
मे॒ध्यस्य
द्यौ॒स्
पृष्ठ॒म्
Sentence: f
अन्त॒रिक्षमुद॒रं,
अन्त॒रिक्षम्
उद॒रम्
Sentence: g
पृथिवी॒ पाज॒स्यं,
पृथिवी
पाज॒स्यम्
Sentence: h
दि॒शः पार्श्वे,
दि॒शस्
पार्श्वे
Sentence: i
अवान्तरदि॒शः प॒र्शव,
अवान्तरदि॒शस्
प॒र्शवस्
Sentence: j
ऋतवो॒ ऽङ्गानि,
ऋत॒वस्
अ॒ङ्गानि
Sentence: k
मा॒साश्चार्धमासा॒श्च प॒र्वाण्य्,
मा॒सास्
च
अर्धमासा॒स्
च
प॒र्वाणि
Sentence: l
अहोरात्रा॒णि प्रतिष्ठा,
अहोरात्रा॒णि
प्रतिष्ठा
Sentence: m
न॒क्षत्राण्य॒स्थीनि,
न॒क्षत्राणि
अ॒स्थीनि
Sentence: n
न॒भो माँसा॒न्य्,
न॒भस्
माँसा॒नि
Sentence: o
ऊ॒वध्यँ सि॒कताः,
ऊ॒वध्यम्
सि॒कतास्
Sentence: p
सि॒न्धवो गु॒दा,
सि॒न्धवस्
गु॒दास्
Sentence: q
य॒कृच्च क्लोमा॒नश्च प॒र्वता,
य॒कृत्
च
क्लोमा॒नस्
च
प॒र्वतास्
Sentence: r
ओ॒षधयश्च व॒नस्प॒तयश्च लो॒मान्य्,
ओ॒षधयस्
च
व॒नस्प॒तयस्
च
लो॒मानि
Sentence: s
उद्य॒न्पूर्वार्धो,
उद्य॒न्
पूर्वार्ध॒स्
Sentence: t
निम्लो॒चञ्जघनार्धो,
निम्लो॒चन्
जघनार्ध॒स्
Sentence: u
य॒द्विजृ॒म्भते,
य॒द्
विजृ॒म्भते
Sentence: v
तद्वि॒द्योतते,
त॒द्
वि॒द्योतते
Sentence: w
य॒द्विधूनुते,
य॒द्
विधूनुते
Sentence: x
त॒त्स्तनयति,
त॒द्
स्तनयति
Sentence: y
यन्मे॒हति,
य॒द्
मे॒हति
Sentence: z
त॒द्वर्षति,
त॒द्
वर्षति
Sentence: aa
वा॒गे॒वास्य वा॒क्.
वा॒क्
एव
अस्य
वा॒क्
Verse: MK2
Sentence: a
अ॒हर्वा अ॒श्वं पुर॒स्तान्महिमा॒न्वजायत,
अ॒हर्
वै
अ॒श्वम्
पुर॒स्ताद्
महिमा
अ॒न्वजायत
Sentence: b
त॒स्य पू॒र्वे समुद्रे यो॒नी;
त॒स्य
पू॒र्वे
समुद्रे
यो॒निस्
Sentence: c
रा॒त्रिरेनं पश्चा॒न्महिमा॒न्वजायत,
रा॒त्रिस्
एनम्
पश्चा॒द्
महिमा
अ॒न्वजायत
Sentence: d
तस्या॒परे समुद्रे यो॒निर्;
त॒स्य
अ॒परे
समुद्रे
यो॒निस्
Sentence: e
एतौ वा अ॒श्वं महिमा॒नावभि॒तः स॒म्बभूवतुर्.
एतौ
वै
अ॒श्वम्
महिमा॒नौ
अभि॒तस्
स॒म्बभूवतुर्
Sentence: f
ह॒यो भूत्वा॒ देवान॒वहद्,
ह॒यस्
भूत्वा
देवा॒न्
अ॒वहत्
Sentence: g
वाजी॒ गन्धर्वा॒न्,
वाजी
गन्धर्वा॒न्
Sentence: h
अर्वा॒सुरान्,
अर्वा
अ॒सुरान्
Sentence: i
अ॒श्वो मनु॒ष्यान्त्.
अ॒श्वस्
मनु॒ष्यान्
Sentence: j
समुद्र॒ ए॒वास्य ब॒न्धुः,
समुद्र॒स्
एव
अस्य
ब॒न्धुस्
Sentence: k
समुद्रो यो॒निः.
समुद्र॒स्
यो॒निस्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.